Book Title: Syadwad Manjari
Author(s): Motilal Ladhaji, Prashamrativijay
Publisher: Naginbhai Paushadhshala

View full book text
Previous | Next

Page 253
________________ । सम्बद्ध्यते तथेश्वरोऽपि मूर्तिमत्सम्बन्धीति तस्मादयमपि व्यापकैराकाशाऽदिभिः सम्बद्ध्यत इति । स पुनरात्मेश्वरसम्बन्धः किं व्यापकोऽव्यापको वा इति । अर्थाऽभावादव्याकरणीयः प्रश्नः । आत्मेश्वरसम्बन्धोऽस्तीत्येतदेव शक्यते वक्तुम् । स पुनरीश्वराऽऽत्मानौ व्याप्नोति न व्याप्नोतीति न व्याक्रियते । येऽप्यजं संयोगोपपत्तेरस्ति सम्बन्धः यानि प्रत्यात्ममनांसि सर्वाणीश्वरसंबद्धानीत्यतः सम्बद्धसम्बन्धोपपत्ते- रात्मान्तराण्यधितिष्ठिति यथाऽत्महस्तसंयोगप्रयत्नाभ्यां हस्ते कर्म भवति उत्पन्नकर्मको हस्तः सन्दंशादिना सम्बद्ध्यते तत्सम्बन्धादयःपिण्डाद्यधितिष्टति । यदि तर्हि सर्गादावीश्वरस्य कारणत्वेऽयं न्यायोऽभिहितः इदानीमीश्वरो न कारणमिति प्राप्तम् ? इदानीमपि स एव न्यायः- मृतशरीरिणां यो धर्माऽधर्मो तौ बुद्धिमत्कारणाऽधिष्ठिताविति समानों न्यायः । बुद्धिमत्कारणाधिष्ठितानि स्वासु स्वासु धारणादिक्रियासु महाभूतानि वाय्यन्तानि प्रवर्तन्ते अचेतनत्वाद्वास्यादिवत्। एवं कार्यत्वात् तृणादीनि पक्षीकृत्य दर्शनस्पर्शनविषयत्वादितिं वक्तव्यम् । एवं यत्र विप्रतिपत्तिः कार्यत्वं च तत्तदनेनैव न्यायेनानेन दृष्टान्तेन वास्यादिना पक्षयित्वा साधयितव्यम् । आगमा- आगमादपि श्रूयते ईश्वरः कारणम् अज्ञो जन्तुरनीशोऽयमात्मनः सुखदुःखयोः । ईश्वरप्रेरितो गच्छेत् स्वर्ग वा श्वभ्रमेव वा ।। यदा स देवो जागर्ति तदेदं चेष्टते जगत् । यदा स्वपिति शान्तात्मा तदा सर्वं निमीलति ।। इति ईश्वरप्रकरणम् ।' श्लो. ८ स्याद्वादमञ्जर्यां सत्तायाः खण्डनं तदर्थं सत्ताप्रतिपादकानि कणादसूत्राणि ( १-२-७ मारभ्य ११ पर्यन्तम् १-२ - १७ च) प्रशस्तपादभाष्यं च । 'सत्तासामान्यमित्यत्र बहूनां विप्रतिपत्तिरतस्तत्र प्रमाणमाहसदिति यतो द्रव्यगुणकर्मसु सा सत्ता ।। १-२-७। इतिकारेण प्रत्ययव्यवहारयोः प्रकारमुपदिशति । तथा च द्रव्याऽऽदिषु त्रिषु सत्सदिति - प्रकारको यतः प्रत्ययः सदिदं सदिदमित्याकारकः शब्दप्रयोगो वा यदधीनः सा सत्ता ।।७।। स्याद्वादमञ्जरी ॐ ॐ ॐ ॐ ॐ ॐ ॐ ॐ ॐ ॐ ४ २२७

Loading...

Page Navigation
1 ... 251 252 253 254 255 256 257 258 259 260 261 262 263 264 265 266 267 268 269 270 271 272 273 274 275 276 277 278 279 280 281 282 283 284 285 286 287 288 289 290 291 292 293 294 295 296 297 298 299 300 301 302 303 304 305 306