Book Title: Syadwad Manjari
Author(s): Motilal Ladhaji, Prashamrativijay
Publisher: Naginbhai Paushadhshala

View full book text
Previous | Next

Page 251
________________ सत्त्वानां तत्र सन्निधानं तद्भागिसत्त्वधर्माऽधर्मपरिपाकं च तदप्रतिबन्धश्चेति । यत् तदीश्वरस्यैश्वर्यं कि तन्नित्यमनित्यमिति ? । यद्यनित्यं तस्य कारणं वाच्यं यस्य चाऽनित्यमेश्वर्यं तस्य कारणं भेदो भवति अणिमादेः एवमन्येषामपीत्यनेक ईश्वरः प्रसज्यत इति ? । अथाऽनेकत्वे किं बाध्यत इति ? एकस्मिन् वस्तुनि व्याहतकामयोरीश्वरयो प्रवृत्तिर्न प्राप्नोति । अथैकमितरोऽतिशेते ? योऽतिशेते स ईश्वरः नेतरः इति । अथ नित्यमैश्वर्यम् ? धर्मवैयर्थ्यं न तद्धर्माद्भवति इति नित्यमिति ब्रूमः । न च धर्मवैयर्थ्यं दोषः तस्य यो धर्म ईश्वरे नाऽसौ तत्रैश्वर्यं करोति, किन्तु प्रत्यात्मवृत्तीन् धर्माऽधर्मसन्निचयाननुगृह्णाति । न चेश्वरे धर्मोऽस्तीत्यचोद्यमेतत् । तत्स्वभावाऽनवधारणात् सन्देहः ईश्वरः किं द्रव्यमाहोस्विद् गुणादीनामन्यतम इति ? द्रव्यं बुद्धिगुणत्वात् द्रव्याऽन्तस्वत् । बुद्धिमत्वात्तर्हि आत्माऽन्तरमिति ? नाऽऽत्मान्तरं गुणभेदात्-तद्यथा गुणभेदे सति पृथिव्यादयो नाऽऽत्मानः तथा गुणभिन्न ईश्वरस्तस्मादसावपि नाऽऽत्मान्तरमिति । कः पुनरेतस्य भेदः ? । एके तावत् ब्रुवते धर्मज्ञानवैराग्यैश्वर्याण्य- तिशयवन्ति तस्मिन्निति नित्यत्वमतिशयः । एतत्तु न बुद्ध्यामहे यथा बुद्धिमत्तायामीश्वरस्य प्रमाणसद्भावो न चैवं धर्मादिनित्यत्वे प्रमाणमस्ति । न चाप्रामाणिकं प्रतिपत्तुमशक्यं, अतिशयस्तु बुद्धिनित्यत्वं गुणभेदः तत्र हि नित्या बुद्धिः सङ्ख्यादयश्च सामान्यगुणाः षड्गुण आकाशवदीश्वर इति। अथास्य बुद्धिनित्यत्वे किं प्रमाणमिति ? । नन्विदमेव- बुद्धिमत्कारणाविधिष्ठिताः परमाणवः प्रवर्तन्त इति ? । बुद्धिमत्तायामेतत् साधनं सा पुनर्नित्येति कुतः ?। प्रत्यर्थनियमाऽसम्भवात्-ये खलु प्रत्यर्थनियता युगपदनेककार्योत्पत्ति- दर्शनात् । यथा स्थावरभेदस्याऽनेकस्य युगपदुत्पाद इति स च प्रत्यर्थनियतबुद्धिभेदेष्वीश्वरस्य न युक्तः । सङ्खयापरिमाणपृथक्त्वसंयोग- विभागबुद्ध्य एव तस्य गुणाः । अथ बुद्धिमत्तयेश्वरस्य शरीरयोगमपि प्रतिपद्यते ? तेनाऽपि प्रतिपद्यमानेन शरीरादयो नित्या अनित्या वा अवश्यमेषितव्याः । यद्यनित्या धर्माऽधर्मसद्भावोऽभ्युपेयः । स्याद्वादमञ्जरी) AARAAAAAAAAAAA२२५)

Loading...

Page Navigation
1 ... 249 250 251 252 253 254 255 256 257 258 259 260 261 262 263 264 265 266 267 268 269 270 271 272 273 274 275 276 277 278 279 280 281 282 283 284 285 286 287 288 289 290 291 292 293 294 295 296 297 298 299 300 301 302 303 304 305 306