Book Title: Syadwad Manjari
Author(s): Motilal Ladhaji, Prashamrativijay
Publisher: Naginbhai Paushadhshala

View full book text
Previous | Next

Page 250
________________ तत्साधनाद्यपेक्षश्च शुद्ध मशुद्धं चाऽभिसन्धिमिति । यदा करोति तदा साधनस्याऽकर्तेति चेत् ? -अथ मन्यसे यदायं साध्यं (यत) किंचिद् दृष्टं निर्वर्तयति तदा येन साधयति तस्याऽकर्ता प्रसज्यत इति । नैतदेवम् । न ब्रूमः सर्वाननयमेकस्मिन् काले करोतीति । अपि तु पर्यायेण । पर्यायकर्तृत्वे चायमदोषः यदादौ करोति तस्यासाधनोत्पत्तिरिति चेत् । अथ मन्यसे यदि शरीराऽऽदिकर्तृत्वं धर्माऽधर्माद्यपेक्षस्य । अथ यदादौ करोति कथं तत् ? आदेरनभ्युपगमाददेश्यमेतत् । अनादिः संसार इति प्रतिपादितमेतत्, धर्माऽधर्मसाफल्यं चैवम् । यदि चाऽनादिः संसारः सापेक्षश्च कर्ता, एवं प्राण्यन्तरसमवायिनां धर्माऽधर्माणां साफल्यम् । अथायमीश्वरः कुर्वाणः किमर्थं करोति ?-लोके हि ये.कर्तारो भवन्ति ते किञ्चिदुद्दिश्य प्रवर्तन्ते इदमाप्स्यामि इदं हास्यामि चेति । न पुनरीश्वरस्य हेयमस्ति दुःखाऽभावात् नोपादेयं वशित्वात् ? । क्रीडार्थमित्येके । एके तावद् ब्रुवतें क्रीडार्थमीश्वरः सृजतीति ? नन्वेतदयुक्तम् । क्रीडा हि नाम रत्यर्थं भवति विना क्रीडया रतिमविन्दताम्, न च रत्यर्थी भगवान् दुःखाऽभावादिति । दुःखिनश्च सुखोपगमार्थं क्रीडन्ति । विभूतिख्यापनार्थमित्यपरेजगतो वैश्वरूप्यं ख्यापनीयं इत्यपरे मन्यन्ते । एतदपि तागेव । नहि विभूतिख्यापनेन कश्चिदतिशयो लभ्यते न चाऽस्याऽख्यापनेन किञ्चिद्धीयत. इति । किमर्थं तर्हि करोति ? तत्स्वाभाव्यात् प्रवर्तत इत्यदुष्टम् । यथा भूम्यादीनि धारणादिक्रियां तत्स्वाभाव्यात्कुर्वन्ति तथेश्वरोऽपि तत्स्वाभाव्यात्प्रवर्तत इति प्रवृत्तिस्वभावकं तत्तत्त्वमिति। - तत्स्वाभाव्यात् सततप्रवृत्तिः इति चेत् ?-अथ मन्यसे यदि प्रवृत्तिस्वभावकं तत्त्वं प्रवृत्तिनिवृत्ती न प्राप्नुतः न हि प्रवृत्तिस्वभावके तत्त्वे निवृत्तियुज्यत इति, क्रमेणोत्पत्तिर्न प्राप्नोति तत्त्वस्यैकरूपत्त्वात् । इदमिदानीं भवत्विदमिदानी न भवत्विति न युक्तम्-नं ह्येकरूपात् कारणात्कार्यभेदं पश्याम इति ? । नैष दोषः । बुद्धिमत्वेन विशेषणात् बुद्धिमत्तत्त्वमिति प्रतिपादितम् । बुद्धिमत्तया च विशिष्यमाणां । सापेक्षं च न सर्वदा प्रवर्तते । न सर्वमेकस्मिन्काले उत्पादयति यस्य कारणसान्निध्यं तद्भवति, यदसन्निहितकारणं तन्न भवति । न च सर्वस्य युगपत्कारणसानिध्यमस्ति, अतः सर्वस्य युगपदुत्पादो न प्रसक्तः । स खलु प्रवर्तमानो धर्माऽधर्मयोः परिपाककालमपेक्षते कारणाऽन्तरोत्पादं तद्भागिनां च (२२४/AAAAAAAAAAAA स्याद्वादमञ्जरी

Loading...

Page Navigation
1 ... 248 249 250 251 252 253 254 255 256 257 258 259 260 261 262 263 264 265 266 267 268 269 270 271 272 273 274 275 276 277 278 279 280 281 282 283 284 285 286 287 288 289 290 291 292 293 294 295 296 297 298 299 300 301 302 303 304 305 306