Book Title: Syadwad Manjari
Author(s): Motilal Ladhaji, Prashamrativijay
Publisher: Naginbhai Paushadhshala

View full book text
Previous | Next

Page 248
________________ ये परमाणून् पुरुषकर्माऽधिष्ठितान् जगतः कारणत्वेन वर्णयन्ति तान् प्रतीदमुच्यते परमाणवः प्रवर्तन्त इति सततं प्रवृत्त्या भवितव्यम् । अथ कालविशेषाऽपेक्षाः प्रवर्तन्ते ? परमाणुभिः कालो व्याख्यातः यथा परमाणवो बुद्धिमन्तमधिष्ठातारमपेक्षन्ते तथा कालोऽपीति । न हि तत्राऽचेतनत्वं निवर्तत इति । क्षीराऽऽदिवद्धेतनस्याऽपि प्रवृत्तिरिति चेद् ? यथा अपत्यभरणार्थं क्षीरादेरचेतनस्यापि प्रवृत्तिरेवं परमाणवोऽप्यचेतनाः पुरुषार्थ प्रवर्तिष्यन्त इति ? । तत्तु युक्तम्, साध्यसमत्वात्यथैव परमाणवः स्वतन्त्राः प्रवर्तन्त इति साध्यं तथा क्षीराऽऽद्यचेतनं स्वतन्त्रं प्रवर्तत इति । यदि क्षीराऽऽदि स्वतन्त्रं प्रवर्तेत मृतेष्वपि प्रवर्तेत, न तु प्रवर्तते, अतोऽवगम्यते बुद्धिमत्कारणाऽधिष्ठितं तदपि । न चायं हेतुः तस्मान्निवर्तते एवं यावद्यावदचेतनं प्रवर्तते (तत्) सर्वं तत् चेतनाऽधिष्ठितमिति । अयमपरो हेतुः बुद्धिमत्कारणाऽधिष्ठितं महाभूताऽऽदि व्यक्तं (मिति) सुखदुःखाऽऽदिनिमित्तं भवति रूपाऽऽदिमत्वात् तुर्याऽऽदिवदिति । धर्माधर्मौ बुद्धिमत्कारणाऽधिष्ठतौ पुरुषस्योपभोगं कुरुतः करणत्वाद्वास्यादिवदिति । आत्मैवाऽधिष्ठाता धर्माधर्मयोर्भविष्यतीति चेत् ? यस्य तौ धर्माधर्मौ स एवाऽधिष्ठाता भविष्यतीति न युक्तम् ? प्राक् कार्यकरणोत्पत्तेः तदसम्भवात्यावत् कार्यकारणसंघातो नोपजायते पुरुषस्य तावदयमज्ञः उपसन्धाताऽपि उपलभ्यानपि तावद्रूपादीनोपलभते कुतोऽनुपलभ्य धर्माधर्मावुपलप्स्यत इति । यदि पुरुषः स्वतन्त्रः प्रवर्तत्ते न दुःखं कुर्यात् । न हि कश्चिदात्मनो दुःखमिच्छतीति । यश्चाऽऽत्मनो (ऽङ्गो). पघातं शिरश्छेदादि वा करोति तद्वैकल्ये प्रायणे वा हितबुद्धिः प्रवर्तते इति । यदि पुनर्धर्माऽधर्माभ्यामेवाऽधिष्ठिताः परमाणवः प्रवर्तेरन् ? न युक्तमेतदचेतनत्वात् न हि किञ्चिदचेतनं स्वतन्त्रमधिष्ठायकं दृष्टमिति । अभ्युपगम्यापि च धर्माऽधर्मयोः परमाणुप्रवृत्तिसामर्थ्यं ? न करणस्य क्रियानिर्वृत्ताबसामर्थ्यात्-न नहि करणं केवलं क्रियां निवर्तयदुपलभ्यते । अथ परमाण्वपेक्षाभ्यां धर्माधर्माभ्यां क्रियते ? तदपि न युक्तमदृष्टत्वात् । नहि कर्मकारणाभ्यां क्रियां जन्यमानां क्वचिदपि पश्याम इति । आत्मा कर्ता भविष्यतीति ? उक्तमेतदज्ञत्वादिति । अकारणोत्पत्तिर्भविष्यतीति ? न युक्तमदृष्टत्वादिति । न चाऽन्या गतिरस्ति, तस्माद् बुद्धिमत्कारणाऽधिष्ठिताः परमाणवः कर्माणि च प्रवर्तन्त इति । २२२ स्याद्वादमञ्जरी

Loading...

Page Navigation
1 ... 246 247 248 249 250 251 252 253 254 255 256 257 258 259 260 261 262 263 264 265 266 267 268 269 270 271 272 273 274 275 276 277 278 279 280 281 282 283 284 285 286 287 288 289 290 291 292 293 294 295 296 297 298 299 300 301 302 303 304 305 306