Book Title: Syadwad Manjari
Author(s): Motilal Ladhaji, Prashamrativijay
Publisher: Naginbhai Paushadhshala

View full book text
Previous | Next

Page 247
________________ तत्त्वसिद्धं तस्मादयुक्तमिति ? न, अत एव तदुत्पत्तेः इति-येनैव न्यायेन ईश्वरस्य कारणत्वं सिध्यति तेनैवाऽस्तित्वमिति, न ह्यविद्यमानं कारणमिति । कः पुनरीश्वरस्य कारणत्वे न्यायः ? अयं न्यायोऽभिधीयते प्रधानपरमाणुकर्माणि प्राक्प्रवृत्तेबुद्धिमत्कारणाऽधिष्ठितानि प्रवर्तन्ते अचेतनत्वात् वास्याऽऽदिवदिति यथा वास्याऽऽदि बुद्धिमता तक्ष्णा अधिष्ठितमचेतनत्वात् प्रवर्तते । तथा प्रधानपरमाणुकर्माणि अचेतनानि प्रवर्तन्ते । तस्मात् तान्यपि बुद्धिमत्कारणाऽधिष्ठितानीति । तत्र प्रधानकारणिकास्तावत् पुरुषार्थमधिष्ठायकं प्रधानस्य वर्णयन्तिपुरुषार्थेन प्रयुक्तं प्रधानं प्रवर्तते । पुरुषार्थश्च द्वेधा भवति शब्दायपलब्धिर्गुणपुरुषाऽन्तरदर्शनं चेति तदुभयं प्रधानप्रवृत्तेविना. न भवतीति ? न, प्राक्प्रवृत्तेस्तदभावाद्यावत्प्रधानं महदादिभावेन न परिणमते तावन्न शब्दाधुपलब्धिरस्ति न गुणपुरुषाऽन्तरोपलब्धिरिति हेत्वभावात् प्रधानप्रवृत्तियुक्ता । अथाऽस्ति, नाऽसदात्मानं लभते न सन्निरुध्यत इति ? एवं च सति विद्यमानः पुरुषार्थः प्रधानं प्रवर्तयतीति न पुरुषार्था (य) प्रधानस्य प्रवृत्तिः न हि लोके यद्यस्य भवति स तदर्थं पुनर्यतत इति । सततं च प्रवृत्तिः प्राप्नीति कारणस्य सन्निहितत्वादिति- पुरुषार्थः प्रवृत्तेः कारणमिति पुरुषार्थस्य नित्यत्वात् सततं प्रवृत्त्या भवितव्यमिति । अथ विद्यमानोऽपि न प्रवर्तयति? न तर्हि पुरुषार्थः कारणमिति यस्याऽभावात् प्रधानं प्रवर्तते यस्य न च भावात् प्रवर्तते तत्कारणमिति । अथ विद्यमानः प्रतिबन्धान प्रवर्तयति ? प्रतिबन्धापगमस्याऽशक्यत्वात् सततमप्रवृत्तिः यत्तत्र प्रतिबन्धकारणं पुरुषाऽर्थस्य तस्यापगमः कर्तुं शक्यः । न सदाऽऽत्मानं जहातीति प्रतिबन्धकस्य नित्यत्वानित्यमप्रवृत्त्या भवितव्यम् । यदा भवन्तः सत्त्वरजस्तमसां साम्याऽवस्था प्रकृतिं वर्णयन्ति सा कुतो निवर्तत इति वक्तव्यम् । न चाऽनिवृत्तायां साम्याऽवस्थायां वैषम्येण शक्यं भवितुम् । अथाऽङ्गाङ्गिभावस्या- ऽनियमाद्वैषम्यं भवतीति ? अत्राऽपि भवन्तं पर्यनुयुक्ष्महे । कथं साम्येनाऽवस्थितमधिकं हीनं च भवति ? नाऽपूर्वोपचये विद्यते न पूर्वहानमस्तीति । यांश्च शब्दादीन् प्रागनुपलब्धस्वरूपान् पुरुषमुपलभते बुद्धिरुपलम्भयति ते किमुपजातविशेषा उताऽनुपजातविशेषा इति ? यधुपजातविशेषा उपलभ्यन्त इति ? व्याहतं भवति नाऽसदात्मनं लभत इति । अथाऽनुपजातविशेषा एवोपलभ्यन्ते ? तथाप्यनिवृत्तो व्याघातः प्रधानं पुरुषार्थः प्रवर्तयतीति । सोऽयं प्रधानवादो यावद्यावद्विचार्यते तावत्तावत्प्रमाणवृत्तं बाधत इति । स्याद्वादमञ्जरी २२१)

Loading...

Page Navigation
1 ... 245 246 247 248 249 250 251 252 253 254 255 256 257 258 259 260 261 262 263 264 265 266 267 268 269 270 271 272 273 274 275 276 277 278 279 280 281 282 283 284 285 286 287 288 289 290 291 292 293 294 295 296 297 298 299 300 301 302 303 304 305 306