Book Title: Syadwad Manjari
Author(s): Motilal Ladhaji, Prashamrativijay
Publisher: Naginbhai Paushadhshala
View full book text
________________
परिशिष्टम्-१
पूर्वपक्षप्रबंध:
अथाऽधुना तीर्थान्तरीयमतानि स्याद्वादमञ्जर्यां येन क्रमेण खण्डितानि तत्क्रमाऽनुसारं तानि प्रदर्श्यन्ते । यतः तत्प्रदर्शनमन्तरा खण्डनं न बुद्धिपथमारोहेद्यथायथम् । तत्र प्रथममौलूक्यमतं वैशेषिकाऽपरपर्यायमङ्गीकृतम् । तत्र चतुर्थश्लोके सामान्यविशेषयोः खण्डनं तदर्थं सामान्यविशेषयोः स्वरूपं वैशेषिकसूत्रभाष्याऽनुसारं दर्शयामः
वैशेषिकसूत्रभाष्ये सामान्यनिरूपणम् । 'सामान्यं द्विविधं परमपरं चाऽनुवृत्तिप्रत्ययकारणम् । तत्र परं सत्ता महाविषयत्वात्, सा चाऽनुवृत्तेरेव हेतुत्वात्सामान्यमेव । द्रव्यत्वाद्यपरमल्पविषयत्वात् तञ्च व्यावृत्तेरपि हेतुत्वात्सामान्यं सद्विशेषाऽऽख्यामपि लभते ।।' ___ 'सामान्यं द्विविधं परमपरं च स्वविषयसर्वगतमभिन्नात्मकमनेकवृत्ति। । एकद्विबहुष्वात्मस्वरूपाऽनुगमप्रत्ययकारि स्वरूपाऽभेदेनाऽऽधारेषु प्रबन्धेन वर्तमानमनुवृत्तिप्रत्ययकारणम् । कथम् ? प्रतिपिण्डं सामान्याऽपेक्षं प्रबन्धेन ज्ञानोत्पत्तावभ्यासप्रत्ययजनिताञ्च संस्कारादतीतज्ञानप्रबन्धप्रत्यवेक्षणात् यदनुगतमस्ति तत्सामान्यमिति' ।। ।
वैशेषिकसूत्रभाष्ये-विशेषनिरूपणम् । 'नित्यद्रव्यवृत्तयोऽन्त्या विशेषाः । ते खल्वत्यन्तव्यावृत्तिहेतुत्वाद्विशेषा एव ।।'
'अन्तेषु भवा अन्त्याः स्वाऽऽश्रयविशेषकत्वाद्विशेषाः । विनाशाऽऽम्भरहितेषु नित्यद्रव्येष्वण्वाकाशकालदिगात्ममनस्सु प्रतिद्रव्यमेकैकशो वर्तमानाः अत्यन्तव्यावृत्तिबुद्धिहेतवः । यथाऽस्मदादीनां गवादिष्वश्वादिभ्य- स्तुल्याऽऽकृतिगुणक्रियाऽवयंवसंयोगनिमित्ता प्रत्ययव्यावृत्तिर्दृष्टा । गौः शुक्लः शीघ्रगतिः पीनककुद्मान् महाघण्ट इति । तथाऽस्मद्विशिष्टानां योगिनां नित्येषु तुल्याऽऽकृतिगुणक्रियेषु ( २१०
i rituid स्याद्वादमञ्जरी
Page Navigation
1 ... 234 235 236 237 238 239 240 241 242 243 244 245 246 247 248 249 250 251 252 253 254 255 256 257 258 259 260 261 262 263 264 265 266 267 268 269 270 271 272 273 274 275 276 277 278 279 280 281 282 283 284 285 286 287 288 289 290 291 292 293 294 295 296 297 298 299 300 301 302 303 304 305 306