Book Title: Syadwad Manjari
Author(s): Motilal Ladhaji, Prashamrativijay
Publisher: Naginbhai Paushadhshala
View full book text
________________
अवस्थापरिणामे कौटस्थ्यप्रसङ्गदोषः कैश्चिदुक्तः । कथम् । अध्वनो व्यापारेण व्यवहितत्वात् । यदा धर्मः स्वव्यापारं न करोति तदाऽनागतो यदा करोति तदा वर्तमानो यदा कृत्वा निवृत्तस्तदाऽतीत इत्येवं धर्मधर्मिणोर्लक्षणानाम् अवस्थानां च कौटस्थ्यं प्राप्नोतीति परैर्दोष उच्यते ।
नाऽसौ दोषः । कस्मात् । गुणिनित्यत्वेऽपि गुणानां विमर्दवैचित्र्यात् यथा संस्थानमादिमद्धर्ममात्रं शब्दादीनां गुणानां विनाश्यविनाशिनामेवं लिङ्गमादिमद्धर्ममात्रं सत्त्वादीनां गुणानां विनाश्यविनाशिनां तस्मिन्विकारसंज्ञेति । तत्रेदमुदाहरणं मृद्धर्मी पिण्डाऽऽकाराद्धर्माद्धर्माऽन्तरमुपसम्पद्यमानो धर्मतः परिणमते घटाऽऽकार इति । घटाकारोऽनागतं लक्षणं हित्वा वर्तमानलक्षणं प्रतिपद्यत इति लक्षणतः परिणमते घटो नवपुराणतां प्रतिक्षणमनुभवन्नवस्थापरिणामं प्रतिपद्यत इति । धर्मिणोऽपि धर्माऽन्तरमवस्था धर्मस्याऽपि लक्षणाऽन्तरमवस्थेत्येक एव द्रव्यपरिणामो भेदेनोपदर्शित इति । एवं पदार्थान्तरेष्वपि योज्यमिति । त एते धर्मलक्षणाऽवस्थापरिणामा धर्मिस्वरूपमनतिक्रान्ता इत्येक एव परिणामः । सर्वानमून्विशेषानभिप्लवते । अथ कोऽयं परिणामः । अवस्थितस्य द्रव्यस्य पूर्वधर्मनिवृत्तौ धर्माऽन्तरोत्पत्तिः परिणाम इति' ।। १३ ।।
तत्रैव स्याद्वादमञ्जर्याम् नापि समवायं इत्याद्विखण्डनं तदर्थं समवायस्वरूपम्। वैशेषिकसूत्रप्रशस्तपादभाष्ये
'अयुतसिद्धानामाधार्याधारभूतानां यः सम्बन्ध इहप्रत्ययहेतुः स समवायः । द्रव्यगुणकर्मसामान्यविशेषाणां कार्यकारणभूतानामकार्यकारणभूतानां वाऽयुतसिद्धानामाधार्याधार भावेनाऽवस्थितानामिहेदमितिबुद्धिर्यतो भवति यतश्चाऽसर्वगतानामधिगताऽन्यत्वानामविष्वग्भावः स समवायाऽऽख्यः सम्बन्धः । कथम् ? यथेह कुण्डे दधीतिप्रत्यय: सम्बन्धे सति दृष्टस्तथेह तन्तुषु पटः, इह वीरणेषु कटः, इह द्रव्ये गुणकर्मणी, इह द्रव्यगुणकर्मसु सत्ता, इह द्रव्ये द्रव्यत्वम्, इह गुणे गुणत्वम्, इह कर्मणि कर्मत्वम्, इह नित्यद्रव्येऽन्त्या विशेषा इति प्रत्ययदर्शनादस्त्येषां सम्बन्ध इति ज्ञायते ।।
२१६ स्याद्वादमञ्जरी
Page Navigation
1 ... 240 241 242 243 244 245 246 247 248 249 250 251 252 253 254 255 256 257 258 259 260 261 262 263 264 265 266 267 268 269 270 271 272 273 274 275 276 277 278 279 280 281 282 283 284 285 286 287 288 289 290 291 292 293 294 295 296 297 298 299 300 301 302 303 304 305 306