Book Title: Syadwad Manjari
Author(s): Motilal Ladhaji, Prashamrativijay
Publisher: Naginbhai Paushadhshala

View full book text
Previous | Next

Page 227
________________ 'अत एव च विद्वत्सु मुच्यमानेषु सन्ततम् । ब्रह्माण्डलोकजीवानामनन्तत्वाद् अशून्यता ।।१॥ . अत्यन्यूनातिरिक्तत्वैर्युज्यते परिणामवत् । वस्तुन्यपरिमेये तु नूनं तेषामसम्भवः ।।२।।' इति काव्यार्थः ।।२९।। अधुना परदर्शनानां परस्परविरुद्धाऽर्थसमर्थकतया मत्सरित्वं प्रकाशयन् सर्वज्ञोपज्ञसिद्धान्तस्याऽन्योऽन्याऽनुगतसर्वनय' मयतया मात्सर्याऽभावमाविर्भावयति अन्योऽन्यपक्षप्रतिपक्षभावाद् । यथा परे मत्सरिण: प्रवादाः । नयानशेषानविशेषमिच्छन् । न पक्षपाती समयस्तथा ते ।।३०।। प्रकर्षेण उद्यते प्रतिपाद्यते स्वाऽभ्युपगतोऽर्थो यैरिति प्रवादाः । यथा येन प्रकारेण, परे भवच्छासनाद् अन्ये, प्रवादा दर्शनानि, मत्सरिणः-३अतिशायने मत्वर्थीयविधानात् सातिशयासहनताशालिनः क्रोधकषायकलुषिताऽन्तःकरणाः सन्तः पक्षपातिनः, इतरपक्षतिरस्कारेण स्वकक्षीकृतपक्षव्यवस्थापनप्रवणा वर्तन्ते । कस्माद् हेतोर्मत्सरिणः, इत्याह-अन्योऽन्यपक्षप्रतिपक्षभावात् । पच्यते व्यक्तीक्रियते साध्यधर्मवैशिष्ट्येन हेत्वादिभिरिति पक्षः-कक्षीकृतधर्मप्रतिष्ठापनाय साधनोपन्यासः । तस्य प्रतिकूल: पक्षः प्रतिपक्षः-पक्षस्य प्रतिपक्षो विरोधी पक्षः, तस्य भावः पक्षप्रतिपक्षभावः । अन्योऽन्यं परस्परं यः पक्षप्रतिपक्षभावः पक्षप्रतिपक्ष १. सर्वनयस्वरूपयुक्ततयेत्यर्थः । २. 'परदर्शनानि' इति क. ख. पुस्तकयोः पाठः । ३. भूमनिन्दाप्रशंसासु नित्ययोगेऽतिशायने । संबन्धेऽस्तिविवक्षायां भवन्ति मतुबादयः । इत्युक्तेः । स्याद्वादमञ्जरी) NARASANNARARRANA २०९)

Loading...

Page Navigation
1 ... 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240 241 242 243 244 245 246 247 248 249 250 251 252 253 254 255 256 257 258 259 260 261 262 263 264 265 266 267 268 269 270 271 272 273 274 275 276 277 278 279 280 281 282 283 284 285 286 287 288 289 290 291 292 293 294 295 296 297 298 299 300 301 302 303 304 305 306