Book Title: Syadwad Manjari
Author(s): Motilal Ladhaji, Prashamrativijay
Publisher: Naginbhai Paushadhshala

View full book text
Previous | Next

Page 221
________________ नयवाक्यमपि स्वविषये प्रवर्तमानं विधि-प्रतिषेधाभ्यां सप्तभङ्गीमनुव्रजति ॥५३।। इति । विशेषाऽर्थिना नयानां नामाऽन्वर्थविशेषलक्षणाऽऽक्षेप- परिहारादिचर्चस्तु भाष्यमहोदधि-गन्धहस्तिटीका- न्यायावताराऽऽदि-ग्रन्थेभ्यो निरीक्षणीयः । प्रमाणं तु सम्यगर्थनिर्णयलक्षणं सर्वनयात्मकम्, स्याच्छब्दलाञ्छितानां नयानामेव प्रमाण- व्यपदेशभाक्त्वात् । तथा च श्रीविमलनाथस्तवे श्रीसमन्तभद्रः अथ यथा नयवाक्यं प्रवर्त्तते तथा प्रकाशयन्तिनयवाक्यमपि स्वविषये प्रवर्तमानं विधिप्रतिषेधाभ्यां सप्तभङ्गीमनुव्रजति ।।५३।। नयवाक्यं प्राकलक्षितविकलादेशस्वरूपं, न केवलं सकलादेशस्वभावं प्रमाणवाक्यमित्यपि शब्दार्थः । स्वविषये । स्वाभिधेये प्रवर्त्तमानं विधिप्रतिषेधाभ्यां परस्परविभिन्नार्थनय-युग्म'समुत्थविधाननिषेधाभ्यां कृत्वा सप्तभङ्गीमनुगच्छति । प्रमाणसप्तभङ्गीवदेतद्विचारः कर्त्तव्यः । नयसप्तभङ्गीष्वपि प्रतिभङ्गस्यात्कारस्यैवकारस्य च प्रयोगसद्भावात् । तासां विकलादेशत्वादेव सकलादेशात्मिकायाः प्रमाणसप्तभङ्गया विशेषव्यवस्थापनात् । विकलादेशस्वभावा हि नयसप्तभङ्गी वस्त्वंशमात्रप्ररूपकत्वात् । सकलादेशस्वभावा तु प्रमाणसप्तभङ्गी संपूर्णवस्तुस्वरूप-प्ररूपकत्वादिति ।।५३ ।। १. 'विशेषार्थिनयानाम्' इति क. पुस्तके पाठः । . , २. तत्त्वार्थाधिगमभाष्यम् । तदेव गन्धहस्तिटीका । ग्रन्थसंख्या ८४००० । इयं श्रीसमन्तभद्राचार्यकृता । एतन्मङ्गलं सपादशतश्लोकात्मकं तदेव केवलमधुनोपलभ्यते न संपूर्णो ग्रन्थः । अयमेव मङ्गलग्रंथ आप्तमीमांसा देवागमस्तोत्रं वेत्यभिधीयते । अत्र श्रीमदकलंकदेवविरचिता अष्टशती । श्रीमद्विद्यानन्दस्वामिविरचिता-अष्टसहस्री चास्ति । न्यायावतारः-श्रीसिद्धसेनदिवाकरकृतः । अनेन द्वात्रिंशद्वात्रिंशिकारूपः स्तुतिसंग्रह कृतः । तत्र प्रत्येकं द्वात्रिंशत्श्लोकाः । तत्रैव न्यायावतारनाम्नयेका द्वात्रिंशिका । अत्र श्रीसिद्धर्षिगणिकृत व्याख्या श्रीराजशेखरसूरिविरचिता टिप्पनी चास्ति । ३. बृहत्स्वयंभुस्तोत्रावल्यां श्रीसमन्तभद्रकृतायां श्रीविमलनाथस्तवे श्लो. ६५ । स्याद्वादमञ्जरी in s istindi १९५)

Loading...

Page Navigation
1 ... 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240 241 242 243 244 245 246 247 248 249 250 251 252 253 254 255 256 257 258 259 260 261 262 263 264 265 266 267 268 269 270 271 272 273 274 275 276 277 278 279 280 281 282 283 284 285 286 287 288 289 290 291 292 293 294 295 296 297 298 299 300 301 302 303 304 305 306