Book Title: Syadwad Manjari
Author(s): Motilal Ladhaji, Prashamrativijay
Publisher: Naginbhai Paushadhshala

View full book text
Previous | Next

Page 200
________________ किञ्चाऽनित्यः क्षणमात्रस्थायी । तस्मिंश्च क्षणे उत्पत्तिमात्रव्यग्रत्वात् तस्य कुतः पुण्यपापोपादानक्रियाऽर्जनम् द्वितीयाऽऽदिक्षणेषु चाऽवस्थातुमेव न लभते । पुण्यपापोपादानक्रियाऽभावे च पुण्यपापे कुतः । निर्मूलत्वात्, तदसत्त्वे च कुतस्तनः सुखदुःखभोगः । आस्तां वा कथंचिदेतत्, तथापि पूर्वक्षणसदृशेनोत्तरक्षणेन भवितव्यम् । उपादानाऽनुरूपत्वाद् उपादेयस्य। ततः पूर्वक्षणाद् दुःखिताद् उत्तरक्षणः कथं सुखित उत्पद्येत । कथं च सुखितात् ततः स दुःखितः स्यात्, विसदृशभागताऽऽपत्तेः । एवं पुण्यपापादावपि, तस्माद् यत्-किञ्चिदेतत् । एवं बन्धमोक्षयोरप्यसंभवः । लोकेऽपि हि य एव बद्धः स एव मुच्यते । निरन्वयनाशाऽभ्युपगमे चैकाधिकरणत्वाभावात् सन्तानस्य चाऽवास्तवत्वात् कुतस्तयोः संभावनामात्रमपीति । परिणामिनि चात्मनि स्वीक्रियमाणे सर्वं निर्बाधमुपपद्यते 'परिणामोऽवस्थाऽन्तरगमनं न च सर्वथा ह्यवस्थानम् । न च सर्वथा विनाशः परिणामस्तद्विदामिष्टः' ।।१।। इति वचनात् । पातञ्जलटीकाकारोऽप्याह १अवस्थितस्य द्रव्यस्य पूर्वधर्मनिवृत्तौ धर्मान्तरोत्पत्तिः परिणामः' इति । एवं सामान्यविशेषसदसदभिलाप्याऽनभिलाप्यैकान्तवादेष्वपि सुखदुःखाद्यभावः स्वयमभियुक्तैरभ्यूह्यः । - अथोत्तसर्धव्याख्या-एवमनुपपद्यमानेऽपि सुख-दुःखभोगादिव्यवहारे परैः परतीर्थिकैरथ च परमार्थतः शत्रुभिः, परशब्दो हि शत्रुपर्यायोऽप्यस्ति, दुर्नीतिवादव्यसनासिनानीयते एकदेशविंशिष्टोऽर्थः प्रतीतिविषयमाभिरिति नीतयो नयाः, दुष्टा नीतयो दुर्नीतयो दुर्नयाः, तेषां वदनं परेभ्यः प्रतिपादनं दुर्नीतिवादः, तत्र यद् व्यसनम्अत्यासक्तिः-औचित्यनिरपेक्षा प्रवृत्तिरिति यावत्, दुर्नीतिवादव्यसनम्, तदेव सद्बोधशरीरोच्छेदनशक्तियुक्तत्वाद् असिरिव असिः कृपाणो दुर्नीतिवादव्यसनाऽसिः, १. पातञ्जलयोगसूत्रम् ३।१३। अत्र ग्रन्थकृता 'टीकाकारोऽप्याह' इति यदुक्तं तञ्चिन्त्यम् । यत इदं पातञ्जलसूत्रम् । मन्मतं तु कस्याऽपि लिपिकारस्य भ्रान्तिरियम् । (१७४KARNA स्याद्वादमञ्जरी

Loading...

Page Navigation
1 ... 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240 241 242 243 244 245 246 247 248 249 250 251 252 253 254 255 256 257 258 259 260 261 262 263 264 265 266 267 268 269 270 271 272 273 274 275 276 277 278 279 280 281 282 283 284 285 286 287 288 289 290 291 292 293 294 295 296 297 298 299 300 301 302 303 304 305 306