Book Title: Syadwad Manjari
Author(s): Motilal Ladhaji, Prashamrativijay
Publisher: Naginbhai Paushadhshala

View full book text
Previous | Next

Page 184
________________ प्रत्यक्षसिद्ध आत्मा । अनुमानसिद्धश्च । तच्चानुमानमिदं, रूपादीन्द्रियाणि विद्यमानप्रयोजकानि । कर्मकरणत्वे सति ग्राह्यग्राहकरूपत्वात् यः कर्मकरणे सति ग्राह्यग्राहकरूपस्स विद्यमानप्रयोजको यथा सदंशोऽयःपिण्डे । कर्मकरणरूपाणि च सन्ति ग्राह्यग्राहकरूपाणि रूपादीन्द्रियाणि । ततो विद्यमानप्रयोजकानीति । न चेन्द्रियाणां स्वत उपलम्भकत्वं येन रूपादिग्रहणं प्रति तेषां कर्तृत्वमेवोपगम्येत न करणत्वमचेतनत्वेन स्वत उपलम्भकत्वायोजनात् । तथा चात्र प्रयोगः । यदचेतनं तन्नोपलब्धं यथा घटोऽचेतनानि च द्रव्येन्द्रियाणि । न चायमसिद्धो हेतुः । यतः खलु द्रव्येन्द्रियाणि निवृत्युपकरणरूपाणि निर्वृत्युपकरणे च पुद्गलमयं च सर्वमचेतनं पुद्रलानां काठिन्यावबोधरूपतया चैतन्यं प्रति धर्मित्वायोगात् । धर्मानुरूपो हि सर्वत्रापि धर्मी । यथा काठिन्यं प्रति पृथिवी । यदि पुनरनुरूपत्वाभावेऽपि धर्मधर्मभावो भवेत् ततः काठिन्यजलयोरपि सम्भवेत्तन भवति तस्मादचेतनाः पुंद्रलाः । तथा चोक्तं 'वाहसनावममुत्तं विसयपरिच्छेयगं च चेयन्नं । विवरीयसहावाणिय वूयाणि जगप्पसिद्धाणि ।।१।। ता धम्मधम्मिभावो कहमेएसिं अणुब्भवगामेय । अणुरूपत्ताभावे काठिन्नजलाण किं न भवे ।।२।।' ततः स्वत उपलम्भकत्वाभावात् रूपादिग्रहणं प्रतीन्द्रियाणां करणभाव एव न कर्तृभाव इति स्थितम् । अथ चेदनुमानं, सभोक्तृकमिदं शरीरं भोग्यत्वात् स्थालिस्थितौदनवत् भोग्यता च शरीरस्य जीवेन तथा निवसता भुज्यमानत्वात् । द्वयोरपि च प्रयोगयोः साध्यसाधनप्रतिबन्धसिद्धदृष्टांते प्रत्यक्षप्रमाणसिद्धेति नोक्तलिंङ्गलिंङ्गिसंबंधाग्रहरूपदोषावकाशः । आगमगम्योऽप्येष जीवः । तथा चागमः ‘अणिंदियगुणं जीवं दुन्नेयं मंसचक्खुणा । सिद्धं पस्संति सव्वन्नू, नाणसिद्धा य साहुणो ।।१।।' अत्र ज्ञानसिद्धाः साधवो भवस्थकेवलिनः शेषं सुगमम् । न चागमानां परस्परविरुद्धार्थतया सर्वेषामप्यप्रामाण्यमभ्युपेयं, सर्वज्ञमूलस्यावश्यं प्रमाणत्वेनाभ्युपगमार्हत्वाद् । अथाऽप्यसम्यक् प्रमाणाप्रमाणविभागापरिणतेः प्रेक्षावतां क्षितिप्रसंगात् । अथ कथमेतत् प्रत्येयं यथायमागमः सर्वज्ञमूल इत्युच्यते-यदुक्तोऽर्थः प्रत्यक्षेणानुमानेन वा न बाध्यते नापि पूर्वापरव्याहतः सोऽदसीयसर्वज्ञप्रणीतोऽन्यस्य तथारूपत्वासंभवात् । ततस्तस्माद्यत्सिद्धं तत्सर्वं सुसिद्धं उक्तं च 'दिटेणं इठेवणय जम्मि विरोहो न हुज्जइ कहिं वि । सो आगमतत्तो जं नाणं तं सम्मनाणं ति ।।१।।' ततः प्रत्यक्षानुमानागमप्रमाणसिद्धत्वाद्वेदपदप्रतिष्ठितत्वाञ्च सौम्य ! अस्ति जीव इति प्रतिपत्तव्यम् । आवश्यकमलयगिरिद्वितीयखंडे । (इह वेदपदोपन्यासस्तेनवेदानां प्रमाणत्वेनाङ्गीकृतत्वात्) । आहच 'छित्रमि समयंमि जाइजरामरणविष्पमुक्केणं । सो समंणो पव्वइओ पंचहि सह खंडियसएहिं ।।' उक्तप्रमाणेन जिनेन भगवता वर्द्धमानस्वामिना जरामरणाभ्यामुक्तलक्षणाभ्यां विप्रमुक्त इव विप्रमुक्तः । तेन छिन्ने निराकृते संशये स इन्द्रभूति: पंचभिः खण्डिकशतैः छात्रशतैः सह श्रमणः प्रव्रजितः सन् साधुः संवृत्त इत्यर्थः ।। आवश्यकमलयगिरिद्वितीयखंडे ।। एवमन्येऽपि पराजिताः प्रव्राजिताश्च । एतञ्च विस्तरेण विशेषावश्यकभाष्ये गणधरवक्तव्यतायामावश्यकचूर्णी कल्पसूत्रषष्टक्षणे श्रीहरिभद्रसूरिणा धर्मसंग्रहण्यां निरूपितं तत्तत एवावसेयम् । (१५८Runkhak स्याद्वादमञ्जरी

Loading...

Page Navigation
1 ... 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240 241 242 243 244 245 246 247 248 249 250 251 252 253 254 255 256 257 258 259 260 261 262 263 264 265 266 267 268 269 270 271 272 273 274 275 276 277 278 279 280 281 282 283 284 285 286 287 288 289 290 291 292 293 294 295 296 297 298 299 300 301 302 303 304 305 306