Book Title: Syadwad Manjari
Author(s): Motilal Ladhaji, Prashamrativijay
Publisher: Naginbhai Paushadhshala

View full book text
Previous | Next

Page 176
________________ सम्यक् श्रुततया परिणमति, सम्यग्दृशां सर्वविदुपदेशाऽनुसारिप्रवृत्तितया मिथ्याश्रुतोक्तस्याऽप्यर्थस्य यथाऽवस्थित- विधिनिषेधविषयतयोनयनात् । तथा हि किल वेदे' अजैर्यष्टव्यम्' इत्यादिवाक्येषु मिथ्यादृशोऽजशब्दं पशुवाचकतया व्याचक्षते, सम्यग्दृशस्तु जन्माऽप्रायोग्यं त्रिवार्षिकं यवव्रीह्यादि, पञ्चवार्षिकं तिलमसूरादि, सप्तवार्षिकं कङ्गसर्षपादि । धान्यपर्यायतया पर्यवसाययन्ति । अत एव च भगवता महाऽऽचायैस्तद् न्यबन्धि । द्वादशाङ्गनामानि चैवम्-१ आचाराङ्गम् २ सूत्रकृतं ३ स्थानाङ्गं ४ समवाययुक् । ५ पंचमं भगवत्यंगं ६ ज्ञाता धर्मकथापि च ।।१५७।। ७ उपासका ८ न्तकृद ९ नुत्तरोपपातिकादशाः। १० प्रश्नव्याकरणं चैव ११ विपाकश्रुतमेव च ।।१५८ ।। १२ द्वादशं पुनदृष्टिवादः ।।१५९।। अत्रान्तिमस्य दृष्टिवादस्य व्यच्छेदात् एकादशैवाऽङ्गानि एकादशाङ्गेतिसंज्ञया श्वेताम्बरेषु प्रसिद्धानि । (आचरणमाचारः । आचर्यते इति वा शिष्टाऽऽचरितो ज्ञानादि 'आदिशब्दाद्दर्शनाचारचारित्राचारतप आचारवीर्याचाराणां ग्रहणम्' आसेवनविधिरित्यर्थः । तत्प्रतिपादको ग्रन्थोऽप्याचारः स चासावङ्गं च । आचाराङ्गम् । तस्य द्वौ श्रुतस्कन्धौ. । तत्र प्रथमो नवाध्ययनात्मकः (तत्र सप्तमाध्ययनं व्युच्छिन्नम्) । द्वितीयः षोडशाऽध्ययनाऽऽत्मकः । एवं पंचविंशतेरध्ययनानां पंचविंशतिशतसंख्यांकाश्लोकाः । तत्र श्रीशीलांकाचार्यकृतटीका १२००० चूर्णि ८३०० श्रीभद्रबाहुस्वामिकृतनियुक्ति (गाथा ३६८) श्लोकसंख्या ४५० संपूर्णसंख्या २३२५० लोकपरिमिता ।। (२) सूचनात्सूत्रं सूत्रेण स्वपरसमयसूचनेन कृतं सूत्रकृतम् तस्य द्वौ श्रुतस्कंधौ । तत्र प्रथमः षोडशाध्ययनात्मकः द्वितीयः सप्ताध्ययनात्मकः । एवं त्रयोविंशतेरध्ययनानां मूलश्लोकसंख्या २१०० । श्रीशीलांकाचार्यकृतटीका १२८५० चूर्णि १०००० । श्रीभद्रबाहुस्वामिकृतनियुक्ति (गाथा २०८) श्लोकसंख्या २५० संपूर्णसंख्या २५२०० परिमिता । १५८३ संवत्सरे श्रीहेमविमलसूरिभिर्दीपिका प्रणीता । एतत्संख्या तु पूर्वोक्तसंख्यायां नान्तर्भाविता । (३) तिष्ठन्त्यस्मिन् प्रतिपाद्यतया जीवादय इति स्थानं एकादिदशान्तसंख्याभेदो वा स्थानं तत्प्रतिपादको ग्रन्थोऽपि स्थानं तञ्च तदङ्गं च स्थानाङ्गम् । अस्य दशाध्ययनानि (स्थानानि) । मूलश्लोकसंख्या ३७७० श्री अभयदेवंसूरिकृतटीका १५२५० संपूर्णसंख्या १९०२० । (४) समवायनं समवायः एकादिशतान्तसंख्यासमाविष्टानां पदार्थानां सङ्ग्रहः । तद्धेतुश्च ग्रन्थोऽपि समवायः । मूलश्लो. १६६७ श्रीअभयदेवसूरिकृतटीका ३७७६ पूर्वाचार्यकृता चूर्णिः ४०० संपूर्णसंख्या ५८४६ लोकपरिमिता । (५) भगवतीति पूजाभिधानं व्याख्याप्रज्ञप्तेः पंचमांङ्गस्य सा चासौ अङ्ग च भगवत्यङ्गम् । तस्याः ४१ शतकानि । मूलश्लो. १५७५२ श्रीअभयदेवसूरिकृतटीका १८६१६ । पूर्वाचार्यकृता चूर्णिः ४००० संपूर्णसंख्या ३८३६८ लोकपरिमिता । संवत् १५६८ वर्षे श्रीमद्दानशेखरोपाध्यायेन १२००० श्लोकपरिमिता लघुवृत्तिः कृता । (६) ज्ञातानि उदाहरणानि तत्प्रधाना धर्मकथा ज्ञाताधर्मकथा तत्प्रतिपादको ग्रन्थोऽपि तथा । एकोनविंशतिरध्ययनानाम: । मूल ५५०० श्रीअभयदेवसूरिकृतटीका ४२५२ संपूर्णसंख्या ९७५२ श्लोकपरिमिता । (१५०NASAAMANA स्याद्वादमञ्जरी)

Loading...

Page Navigation
1 ... 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240 241 242 243 244 245 246 247 248 249 250 251 252 253 254 255 256 257 258 259 260 261 262 263 264 265 266 267 268 269 270 271 272 273 274 275 276 277 278 279 280 281 282 283 284 285 286 287 288 289 290 291 292 293 294 295 296 297 298 299 300 301 302 303 304 305 306