Book Title: Sulabh Charitrani Part 01
Author(s): Vajrasenvijay
Publisher: Bhadrankar Prakashan

View full book text
Previous | Next

Page 136
________________ श्रीजम्बूकुमारचरित्रम् • ११९ यद्यहं विषयासक्तो भवामि तदा ललिताङ्गवद्दुःखभाजनं स्याम् अतो न रते रतिः कर्तुं युक्ता। ॥ इति ललिताङ्गदृष्टान्तः ॥ एवं कुमारेण शिक्षा दत्ता, एवं परस्परमुत्तरप्रत्युत्तरवाक्यै रजनी निर्जगाम । पश्चात्स्त्रीभिरुक्तम्, स्वामिन् ! दुष्करं व्रतपालनं । ६५अनुपमोऽयं वैराग्यरसः, यैरयं सम्यगाराधितस्तैर्मुक्तिपदमलङ्कृतमिति स्त्रीभिरपि जम्बूवचः प्रमाणीकृतम् ! तस्मिन्नवसरे प्रभवेणोक्तं, मदीयं महद्भाग्यं यच्चौरेणापि मया वैराग्यवार्ता श्रुता । विषयमोऽयं विषयाभिलाषः, दुस्त्यजोऽयं विषयरागः, धन्यस्त्वं येन तारुण्येऽपीन्द्रियाणि वशीकृतानि । जम्बूकुमारेणापि तदुद्धाराय बहवो धर्मोपदेशा दत्ताः, वैराग्यवासितेन प्रभवचौरेणोक्तम्, त्वं महान् ममोपकारकर्ता, अहमपि त्वया सार्द्ध व्रतं ग्रहीष्यामि । प्रातःकालो जातः । श्रेणिकेन राज्ञा तत् श्रुतम्, श्रेणिकेनापि बहवो रक्षणोपायाः कृताः, परन्तु जम्बूकुमारेण मनसि न धारिताः पश्चात्प्रातः समहोत्सवं सप्तक्षेत्र्यां वित्तं वितीर्य कृतश्रेणिकनृपोत्सवः ६६प्रभवादिपञ्चशतीपरिकलितो निजजनकजननीसहितः प्रमदाभिरनुश्रितो निजश्वशुरश्वश्रूसंयुतः श्रीसुधर्मास्वामिनः समीपे चारित्रं जग्राह । अनुक्रमेणाधीतद्वादशाङ्गीकश्चतुर्दशपूर्वधारी६७ चतुर्ज्ञानसहितः स श्रीसुधर्मस्वामिपट्टभूषणं जातो, घातिकर्मक्षयात्केवलमवाप्य मुक्तिकामिनीकण्ठालङ्कार हारः सञ्जातः। धन्योऽयं सुरराजराजमहितः श्रीजम्बूनामा मुनिस्तारुण्येऽपि पवित्ररूपकलितो यो निर्जिगाय स्मरम् । त्यक्त्वा मोहनिबन्धनं निजवधूसम्बन्धमत्यादरान्मुक्तिस्त्रीवरसङ्गमोद्भवसुखं लेभे मुदा शाश्वतम् ॥१॥ एवं जम्बूसदृशः क्षणभरं विषयसुखं त्यक्त्वा शाश्वत एव सुखे रमन्ते, तत्प्रत्ययेन प्रभवसदृशा अपि सुलभबोधिनः संसाराम्बुधिपारगा भवन्तीति।

Loading...

Page Navigation
1 ... 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240 241 242 243 244 245 246