Book Title: Sulabh Charitrani Part 01
Author(s): Vajrasenvijay
Publisher: Bhadrankar Prakashan

View full book text
Previous | Next

Page 195
________________ १७८ • सुलभ-चरित्राणि विद्यादेव्याः समाराधनं च दत्तम्, वैताढ्यपर्वते दक्षिणश्रेण्यां रथनूपुरचक्रवालप्रमुखाणि पञ्चाशन्नगराणि, उत्तरश्रेण्यां च गगनवल्लभप्रमुखाणि षष्टिनगराणि वासयित्वा प्रदत्तानि, तत्र विद्याबलेन लोकान् वासयित्वा यावन्ति नगराणि तावतो देशान् संस्थाप्य तौ पृथक्पृथक् नमिविनमी तत्र राज्यं पालयामासतुः । तौ चिरकालं राज्यसुखमनुभूय प्रान्ते सर्वसङ्गं परित्यज्य दीक्षां गृहीत्वा श्रीविमलाचले समागत्य श्रीदेवाधिदेवं युगादिदेवं भावेनाऽभिनम्य तत्रैव तीर्थे मुक्ति प्रापतुः, इति नमिविनमिसम्बन्धः अथ श्रीऋषभदेवस्य प्रथमगणधरः पुण्डरीकनामाऽत्रैव मुक्ति प्राप्तस्तत्सम्बन्धश्चायम् । श्री आदिनाथपुत्रो भरतः, तस्य पुत्रः पुण्डरीक: श्रीप्रभोः पार्वे धर्म श्रुत्वा प्रतिबुद्धः सन् दीक्षां गृहीत्वा प्रथमगणधरो जातः, पञ्चकोटिसाधुपरिवृतः गणधरो ग्रामानुग्रामं विहरन् सौराष्ट्रदेशे समागतः, तदागमनं श्रुत्वाऽनेकभूपमण्डलीकसामन्तश्रेष्ठि-नरनारी-गणा वन्दनार्थमाययुः, गुरुरपि यथायोग्यं धर्मदेशनां ददाति स्म । तस्मिन्नवसरे एका सबाष्पजला सशोका चिन्तासागरसम्प्रविष्टा दीना महिला समागता, तया सार्धं विधवा दौर्भाग्ययुक्ता एका कन्याऽपि समागता । श्रीपुण्डरीकगणधरं नमस्कृत्यावसरं प्राप्य कन्यया सह सा स्त्री इति पप्रच्छ हे भगवन् ! अनया कन्यया पूर्वभवे किं पापं कृतं येन विवाहसमये करमोचनवेलायामेवास्याः पतिर्मरणं प्राप? इति प्रश्ने कृते सति गणधरः प्राह-हे भद्रे ! अशुभकर्मणोऽशुभमेव फलम् ।। ____ तथाहि-जन्बूद्विपे पूर्वमहाविदेहे मनोरमं विश्वविख्यातं कैलासपर्वताकारतुङ्गप्राकारवेष्टितं नानादेशोद्भवजनाकुलं विशालशालगृहैर्मण्डितं चन्द्रकान्तनामकं नगरं बभूव । तत्र श्रियो धाम १°सकलकलागुणगणग्रामो जगति प्रसिद्धः समरसिंहो नाम महीपतिरभूद् । तस्य शीलालङ्कारधारिणी धारिणीनाम्नी वल्लभा बभूव । तत्र नगरे महाधनाढ्यः परमश्राद्धो जिनभक्तिरतोऽनेकगुणसागरो धनावहनामा श्रेष्ठी बभूव । तस्य कर्मयोगाद् द्वे भार्ये बभूवतुः, एका कनकश्रीद्वितीया मित्रश्रीस्ताभ्यां भार्याभ्यां सह स श्रेष्ठी सुखेन

Loading...

Page Navigation
1 ... 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240 241 242 243 244 245 246