Book Title: Sulabh Charitrani Part 01
Author(s): Vajrasenvijay
Publisher: Bhadrankar Prakashan

View full book text
Previous | Next

Page 226
________________ श्रीमौनैकादशी कथा • २०९ अथ उद्यापनदिवसात् पञ्चदशमे दिवसे आकस्मिकेन १५ १६ उदरशूलेन मृत्वा एकादशे १७ आरण्ये देवलोके एकविंशतिसागरपरिमितायुः देवो जातः । देवलोकसुखमनुभूय ततः च्युत्वा सौर्यपूरे समृद्धिदत्तव्यवहारिकगृहे प्रीतिमतीप्रियाकुक्षौ पुत्रत्वेनोत्पन्नः, तस्य नालस्थापनार्थं यदा १८ गर्तं खनितुमारब्धं तदा गर्तखननस्थाने निधिर्निर्गतः, तद्वर्धापनिका १९ सर्वत्र जाता, जाताऽऽह्लादः श्रेष्ठी महीयांसं१° जन्मोत्सवं दशदिवसपर्यन्तं कृतवान् । निवृत्तेऽशुचिकर्मणि प्राप्ते च द्वादशे दिवसे ज्ञातिबान्धवान् भोजयित्वा गर्भस्थेऽस्मिन् मातुर्व्रतेच्छाऽभूदिति गुणनिष्पन्नं सुव्रत इति नाम कृतवान् पिता । न पुनर्मङ्गलादिवद् निरर्थकम् २१ । उक्तं च भौमं २२ मङ्गल नाम विषिकरणे भद्रा कणानां क्षये, वृद्धिः, शीतलका च दुष्टपिटके, राजा रजः पर्वणि । मिष्टत्वं लवणे, विष मधुरता, दग्धे गृहे शीतलं, पात्रत्वं च २३पणाङ्गनासु गदितं नाम्ना परं नार्थकम् ॥१॥ अथ पञ्चाभिः धात्रीभिः लाल्यमानोऽसौ अवर्धत, अनुक्रमेणायम् अष्टवार्षिकः २४ सञ्जातः, तं पुत्रं वीक्ष्य तत्पित्रा चिन्तितम्रूपलावण्यसंयुक्ता नरा जात्यादिसम्भवाः । विद्याहीना न राजन्ते ततोऽमुं पाठयाम्यहम् ॥१॥ " इति चिन्तयित्वा २५महामहैः पितरौ उपाध्यायसमीपे द्वासप्ततिकलाभ्यासं कर्तुं मुमुचतुः । अनायासेन सकला अपि कला अल्पकाले एव पपाठ षड्विधावश्यकसूत्रादिकं श्रावकाचारमपि पपाठ, प्राप्तयौवनस्य तस्य पित्रा श्रीकान्ता, पद्मा, लक्ष्मी:, गङ्गा, पद्मलता, तारा, रम्भा, पद्मिनी, गौरी गाङ्गेया, रतिः, इतिनाम्न्यः महर्द्धिकव्यवहारिणां एकादश कन्याः परिणायिताः ताभिः रूपलावण्यशालिभिः सह भोगान् भुञ्जाना २६ दोगुन्दकसुर इवाभवत् । तदनन्तरं

Loading...

Page Navigation
1 ... 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240 241 242 243 244 245 246