Book Title: Sulabh Charitrani Part 01
Author(s): Vajrasenvijay
Publisher: Bhadrankar Prakashan

View full book text
Previous | Next

Page 230
________________ श्रीमौनैकादशी कथा • २१३ सर्वदुःखान्तकर: साधुधर्मः द्रूतं मोक्षगमनाय सेव्यः । यदुक्तम्चारित्ररत्नान्नपरं हि रत्नं, चारित्रवित्तान्न परं हि वित्तम्५२ । चारित्रलाभान्न परो हिलाभ-श्चारित्रयोगान्न परो हियोगः॥१॥ दीक्षा गृहीता दिनमेकमेव येनोग्रचित्तेन५३ शिवं स याति । नतत्कदाचित्तदवश्यमेव वैमानिकः स्यात्५५त्रिदशप्रधानः॥२॥ इत्यादि देशनां श्रुत्वा सुव्रतोऽब्रवीत्-हे तारक ! अहं संसारकान्तारादुद्विग्नोऽस्मि इति गृहभारं पुत्रे समारोप्य श्रीमतां५५ समीपे दीक्षां ग्रहीष्यामि, इति श्रुत्वा गुरुः उवाच-यथासुखं प्रवर्तस्व प्रतिबन्धं ५६मा विधेहि । ततः श्रेष्ठी गृहं गत्वा कुटुम्बं भोजयित्वा स्वजनपुत्राणामग्रे दीक्षाऽऽदेशममार्गयत् । तैरनुमतः सुव्रत एकादशभिः स्त्रीभिः सह प्रवव्राज । शीघ्रमेव तपोविशेषात् कायबलं ५७क्षयीकृत्य मासिकेनाऽनशनेन तस्य एकादशपन्योऽपि केवलं प्राप्य शिवं गताः । अथ सुव्रतः मुनिर्ग्रहणासेवनाशिक्षां पठित्वा साधुधर्मे चरति यदुक्तम् जयं चरे जयं चिढ़े, जयमासे जयं सए५८ । जयं भुजंतो भासंतो, पावकम्मं न बंधई ॥१॥ एवं पवित्रं चारित्रं पालयामास तथा विशेषतः षष्ठाष्टमादि तपः कृतवान्तस्य सङ्ख्या लिख्यतेजनिते द्वे शते षष्ठे, अष्टमानां शतं तथा । चतुष्टयं चतुर्मास्या, एकं ५९षाण्मासिकं तपः ॥१॥ स मौनेकादशीतिथ्यास्तपस्तपन् विशेषतः । पाठको द्वादशाङ्गीनां, शुद्धां दीक्षामपालयत् ॥२॥ इति ।

Loading...

Page Navigation
1 ... 228 229 230 231 232 233 234 235 236 237 238 239 240 241 242 243 244 245 246