Book Title: Sulabh Charitrani Part 01
Author(s): Vajrasenvijay
Publisher: Bhadrankar Prakashan
View full book text
________________
२१४ • सुलभ-चरित्राणि अथैकदा एकादश्यां मोनमास्थाय तपः कुर्वति सुव्रते तत्परीक्षार्थं कश्चिद् मिथ्यादृष्टिदेवः कस्यचित् साधोः कर्णयोः महतीं वेदनामकारयत् तस्य वेदना महति उपचारे कृतेऽपि न शाम्यति, तदा तेन देवेन साधुना पुरत उक्तम्अस्य वेदना सुव्रतमुनेः भैषज्यात्५० क्षयं यास्यति, यदि स एव स्वस्थानाद् बहिरागत्य उपचारं करिष्यति इति, तत् श्रुत्वा ते साधवः तत्रागत्य उपचारार्थं सुव्रतमभ्यर्थयन्, सुव्रतोऽपि मौनी रात्रौ न स्वस्थानाद् बहिर्याति, ततो देवानुभावतः स वेदनार्तो६१ मुनिः सुव्रतं मस्तके मारयति ततः सुव्रतस्यातीव वेदना सम्भूता परन्तु स मुनिश्चिन्तयतिअर्हन्तो भगवन्तो ये, साधवो गणधारिणः । इन्द्राश्चन्द्रा दिनेन्द्राश्च,६२ नागेन्द्रा व्यन्तरेन्द्रकाः ॥१॥ सचक्रवर्तिनो वासुदेवाः प्रतिनरायणा:६३ । बलदेवा नराधीशा, मानवा अपरेऽपि च ॥२॥ कर्मणा पापिनाऽनेन, ते सर्वेऽपि विडम्बिताः । कियन्मात्रो वराकोऽहं, पुरस्तात् तस्य कर्मणः ॥३॥ अरे जीव ! क्षमस्व त्वमुदितं कर्म तेऽस्ति यत् । तद् भोगेन विना नैव, प्रक्षीयेत कदाचन ॥४॥ लद्धं६४ अलद्धपुव्वं-जिणवयण सुभासिअं अभियभूयं६५ । गहिओ सग्गइमग्गो-नाहं मरणाउ बीहेमि ॥५॥ ६६तपस्तीनं ६ घरट्टोऽयं, क्षमामरिकान्वितः । धृतिहस्तो मनःकीलः,६८ कर्मधान्यानि चूर्णयेत् ॥६॥ इति ।
अथ विभङ्गज्ञानेन मुनिमक्षुभितं मत्वा देवः विशेषेणोपसर्गान् अकरोद्,

Page Navigation
1 ... 229 230 231 232 233 234 235 236 237 238 239 240 241 242 243 244 245 246