Book Title: Sulabh Charitrani Part 01
Author(s): Vajrasenvijay
Publisher: Bhadrankar Prakashan

View full book text
Previous | Next

Page 238
________________ श्रीपौषदशमीमाहात्म्यकथा • २२१ वतारिकानाम्नीलघुवृत्तौ श्रीदेवसुरिशिष्यैः श्रीरत्नप्रभसूरिभिः यैरत्र स्वप्रभया दिगम्बरस्यार्पिता १४पराभूतिः प्रत्यक्षं विबुधानां जयन्तु ते देवसूरयो नव्याः । तथा तैरेव तद्दिगम्बरबौद्धादिकुमतिमतोच्छेदनतत्परोऽष्टाध्यायरूपः प्रमाणनयतत्त्वालोकालङ्कारस्याद्वादरत्नारनाम प्रमाणः ग्रन्थो ग्रथितस्तद्वृत्तिश्च चतुरशीतिसहस्रश्लोकपरिमिता कृतास्तद्विनेयैर्लघुवृत्तिर्विहिता तत्र चतुरशीतिवादिनश्चेमे । यतःबंभअट्ठनव १७ बुद्धनग १८ अट्ठारहजित्तीय शैव । सोल १६ दहभट्ट १० सत्त ७ गंधव्व विजित्तीय ॥१॥ जित्तदिगम्बरसत्त ७ पुणरवरवत्तियचार ४ ॥ दु २ ज्झोइ ईक १ धीवरड़क १ भिल्ल अरु भूमिपाडइक १ भोई ॥२॥ इत्येषां गुणनयोगेन चतुरशीतिवादिनो भवन्त्येतच्चतुरशीतिवादिनाथकुमुदचन्द्रदिगम्बरोऽणहिलपुरपत्तने सर्वराजसभासमक्षं पराजितोऽतः सिद्धराजजयसिंहमहीपतिसभास्थितैः सर्वपण्डितैः श्रीदेवसूरिणां श्रीवादिदेवसूरिरित बिरूदं प्रदत्तमथैकस्मिन् समये श्रीवादिदेवसूरयश्चातुर्मासतपश्चर्यार्थं श्रीमण्डनमेडतानामनि नगरे संस्थातिस्तत्रस्थाः श्राद्धसद्धर्माराधननिबन्धनबुद्धयः शुद्धश्राद्धाः सर्वे वक्ष्यमाण सद्विधिना धर्ममाराधयन्तस्तिष्ठन्ति स्म यत:व्याख्यानश्रवणं जिनौकसि१५ गर्तिनित्यं गुरोर्वन्दनम् , प्रत्याख्यानविधानमागमगिरां चित्ते चिरं स्थापनम् । कल्याणोदिमात्मशक्तितपसा संवत्सराराधनम् , श्राद्धा जन्मफलं सदेति जगृहुः श्रीदूरिपादान्तिके ॥१॥ तथाऽन्यत्रापि प्रोक्तम्, यतःत्रैकाल्यं जिनपूजनं प्रतिदिनं सङ्घस्य सन्मानम्, स्वाध्यायो गुरुसेवनं च विधिना दानं तथावश्यकम् । AAM

Loading...

Page Navigation
1 ... 236 237 238 239 240 241 242 243 244 245 246