Book Title: Sulabh Charitrani Part 01
Author(s): Vajrasenvijay
Publisher: Bhadrankar Prakashan

View full book text
Previous | Next

Page 243
________________ २२६ • सुलभ - चरित्राणि भक्तलोकानामुत्तरोत्तरमङ्गलमाला मिलत्यत: कारणाज्जनैस्तत्तीर्थयात्राऽवश्यं करणीया । विशेषतोऽस्य तीर्थस्य पौषदशमी एव पर्व, ततस्त्पौषदशमी समाराध्या तद्विधिरप्यस्मत्कृतप्रथमपौषदशमीकथानकादवसेयस्तत्पौषदशमीव्रताराधका अप्यतुलतीर्थंकरोक्तजीवदयाधर्ममङ्गीकृत्य विमलसौभाग्यवाप्याखिलकर्मप्रमुक्तिरूपविमलमुक्तिसुखभाजो भव्या भवन्त्यतस्तत्पौषदशमीव्याख्यानमात्मीयकर्णाभ्यामाकर्ण्याराधकैस्तदाराधनं विधेयं शुद्धसिद्धान्तश्रद्धालुभिः श्राद्धैरित्यस्माकं हितोपदेशस्ततश्चाथ संस्कृतगद्यबद्धपौषदशमीकथारचयितृस्वगुरुपरम्परादिप्रशस्ति-रुच्यते । यतः - ॥ अथ शार्दूलविक्रीडितवृत्तम् ॥ आनन्दाद्विमलास्तपागणवरे जाताः सुसूरीश्वरास्तच्छिष्याः कृतिनः सुऋद्धिविमला ज्ञानादिरत्नाकराः । स्फुर्जत्कीर्त्तिसुकीर्त्तिविमलास्तेषां विनये पुनस्तेषां धीरसुवीरवीरविमला जाता: सुशीलालयाः ॥ १॥ तेषां शिष्यवरा विशुद्धविमलास्तेषां विशुद्धाशयाः, सौदर्याः सुमहोदयादि विमला मोक्षस्य मार्गाध्वगाः । तेषां शिष्यधवाः प्रमोदविमला: सर्वप्रमोदप्रदास्तेषां सन्मणयो मणीविमलजित्संज्ञाः सुशिष्याधिपाः ॥२॥ उद्योताद्विमलाः प्रखण्डितमला उद्योतदीप्ताः, पुनस्तेषां ज्ञानसुदानिदानविमलाः शिष्यानिदानं श्रियात् । पन्यासाः सुदयादयादिविमलास्तेषां विनेया नयाः, सौभाग्याद्विमला: सुभाग्यभरभृद्देहा मुदा मालयाः ॥३॥ तच्छिष्येण सुमुक्तिमुक्तिविमलेनोद्यद्गुरोराज्ञया, पन्यासाख्यपदान्वितेन मयका सद्गबद्धं मुदा ।

Loading...

Page Navigation
1 ... 241 242 243 244 245 246