Book Title: Sulabh Charitrani Part 01
Author(s): Vajrasenvijay
Publisher: Bhadrankar Prakashan

View full book text
Previous | Next

Page 235
________________ [ २५ ] ॥ श्रीपौषदशमीमाहात्म्यकथा ॥ (फलवर्धि - पार्श्वनाथतीर्थ-माहात्म्यम् ) श्रीपार्श्वनाथमवनम्य सुधर्मवृक्षमेघं सुवाणिमतुलां सुगुरुं स्वकीयम् । कुर्वे कथां प्रवरतज्जिनजन्मपूतसत्पौषकृष्णदशमीदिवसस्य वर्याम् ॥१॥ अहं श्रीपार्श्वनाथं त्रयोविंशतितमतीर्थङ्करमवनम्य नत्वा किं भूतं पार्श्वनाथं सुधर्मः सुष्ठु जिनोक्तो धर्मः स एव वृक्षस्तस्य सिञ्चने मेघस्तं, पुनः वाणीं सरस्वतीं देवीमतुलामनुपमां, पुनः स्वकीयं सुगुरुं सद्गुरुं शुच्याचारप्रचाराचरित्रचारित्र श्रीमत्पन्यासदयाविमलगणिशिष्यसम्प्राप्तसौभाग्यश्रीपन्याससौभाग्यविमलगणिसंज्ञकमवनम्य च प्रवरः श्रेष्ठो यस्तज्जिनस्तत्पार्श्वनाथजिनस्तस्य जन्म तेन पूतं पवित्रं यः सत्पौषकृष्णस्य सत्पौष - मासकृष्णपक्षस्य या दशमीतिथिस्तस्या दिवसस्तस्य माहात्म्यकथां कुर्वे करोमि 1 तथाहि श्रीपार्श्वनाथतीर्थनाथनामस्मरणात्रेणैव सिद्धिसाधितॄणां सकलसमीहितार्थाः सिद्ध्यन्ति । यच्चोक्तम्- "तह' समरं हतविग्घं दत्तपुत्तकलत्तहिं" तथा तज्जिनप्रणाममप्यत्यन्तफलदायकं यतश्चोक्तम्, श्रीभद्रवाहुस्वामिभिः "चिट्ठउ दूरे मंतो तुज्झ पणामो वि बहुफलो होइ " इत्यादि यतः - श्री पार्श्वनाथार्हतः पादस्पर्शनमात्रत: लौकिकैर्वन्द्या गङ्गानद्यपि पवित्रा जाता तत्सम्बन्धि कथानकं हरिवंशपुराणोदितं लोकानां कौतुकाय लिख्यते । तद्यथा-अथैकदा समये गङ्गादेवी देवेन्द्रसभायां गता, परमिन्द्रेण

Loading...

Page Navigation
1 ... 233 234 235 236 237 238 239 240 241 242 243 244 245 246