Book Title: Sulabh Charitrani Part 01
Author(s): Vajrasenvijay
Publisher: Bhadrankar Prakashan

View full book text
Previous | Next

Page 225
________________ २०८ • सुलभ-चरित्राणि एकदा ग्रामानुग्रामं विहरन् सर्वज्ञो भगवान् श्रीनेमिनाथो द्वारिकायां समवासरत्, तं वन्दनार्थं श्रीकृष्णः समागतवान्, वन्दित्वा कृष्णोऽवोचत्स्वामिन् ! षष्ट्यधिकशतत्रय (३६०) दिनमध्ये एकं सारं वासरं कृपां कृत्वा मम निवेदय, यमाराध्य दानशीलतपोव्रतशक्तिहीनोप्यहं निस्तीर्णो भवामि, भगवान् उवाच-यद्येवं तर्हि त्वं मार्गशीर्षशुक्लैकादशीमाराधय यतःअपि "मिथ्यादृशां मान्या, सा मौनैकादशी तिथिः । मार्गशीर्षाख्यमासस्य, शुक्लपक्षे प्रकीर्तिता ॥१॥ तत्र पुण्यं कृतं स्वल्प-मपि प्रौढफलं भवेत् । तस्मादाराधनीया सा, विशेषेण विशारदै:१० ॥२॥ सर्वेभ्योऽपि च पर्वभ्यः, पर्व पर्युषणाह। दिनेभ्योऽप्यखिलेभ्योऽयं, तथा मुख्योऽस्ति वासरः ॥३॥ श्रमणैः श्रमणीभिश्च, श्रावकैः श्राविकादिभिः । धर्मकर्म विधातव्यमस्मिन् दिने विशेषतः ॥४॥ इति श्रुत्वा कृष्ण उवाच-विभो ! पूर्वं के नाऽपि एकादशीव्रतमाचीर्णम्११ ? तस्य च कीदृशी फलप्राप्तिर्जाता ? स्वामी प्राहधातकीखण्डे इषुकारभूधरात्१२ पश्चिमे दिग्विभागे विजयं नाम पत्तनमस्ति, तत्र पृथ्वीपालो नाम राजाऽभूत्, तस्य च औदार्यचातुर्य-शीलादिगुणशालिनी चन्द्रवती नाम प्रिया, तत्र च १३व्यवहारिशिरोमणिः प्रबलव्यापारोपाजितबहुधनः १४षड्विधावश्यकरतः सत्पुत्रयुतो जिनभक्तिकारकः सूरनामा श्रेष्ठी । स च वृद्धावस्थायामेकदा गुरुसमीपमागत्य भक्त्या प्रणम्य उवाच-भगवन् ! ईदृग्विधं धर्म कथय येन स्वल्पेनाऽपि कर्मक्षयः स्यात्, गुरुणा एकादशीव्रतमादिष्टम्, अथ स गुर्वाज्ञया गृहमागत्य एकादशवर्षेकादशमासपर्यन्तं यावत् तपश्चकार, समाप्ते च व्रते तेन विधिपूर्वकमस्या उद्यापनमपि कृतम् ।

Loading...

Page Navigation
1 ... 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240 241 242 243 244 245 246