Book Title: Sulabh Charitrani Part 01
Author(s): Vajrasenvijay
Publisher: Bhadrankar Prakashan

View full book text
Previous | Next

Page 210
________________ सौभाग्यपञ्चमीकथा • १९३ न प्राप । इतश्च तत्रैव पुरे सप्तकोटीसुवर्णाधीशो १० जिनधर्मरतः प्रसिद्धिभाक् सिंहदासो नाम श्रेष्ठी, तस्य गृहे गुणोचिता ११ तिलकानाम्नी भार्या तयोः पुत्री गुणमञ्जरी आजन्मतो रोगैरुपद्रुता १२ वचनेन मूकतां १३ प्राप्ता बभूव । विविधैरोषधैरपि तस्या रोगशान्तिर्न जायते न च यौवने तां कोऽप्युद्वहति १४ । तस्याः षोडशवार्षिक्या दुःखेन मातापित्रादिः सकलस्वजनो दुःखितः समजायत । तत्रैव पुरे एकदा श्रीविजयसेनसूरयश्चतुर्ज्ञानधरा गुरवः समाजग्मुः । तदा सर्वोऽपि नागरिकलोक : १५ सपुत्रो भूपतिः सकुटुम्बः सिंहदासः श्रेष्ठी सर्वे वन्दनार्थमुपगता गुरुणा च धर्मदेशना प्रारब्धाज्ञानस्याराधने यत्नोऽध्ययनश्रवणादिभिः । भव्यैर्विधेयः सततं निर्वाणपदमिच्छुभिः ॥१॥ विराधयन्ति ये ज्ञानं मनसा ते भवान्तरे । नराः स्युः शून्यमनसो विवेकपरिवर्जिताः ॥ २ ॥ विराधयन्ति ये ज्ञानं वचसापि हि दुर्धियः । मूकत्वमुखरोगित्वदोषास्तेषामसंशयम् ॥३॥ विराधयन्ति ये ज्ञानं कायेनायत्नवर्तिना । दुष्टकुष्ठादिरोगा : १६ स्युस्तेषां देहे विगर्हिते १७ ॥४॥ मनोवाक्काययोगैर्ये ज्ञानस्याऽऽशातनां सदा । कुर्वते मूढमतयः कारयन्ति परानपि ॥५॥ तेषां परभवे पुत्रकलत्रसुहृदां १८ क्षयः । धनधान्यविनाशश्च तथाऽऽधिव्याधिसम्भवः ॥ ६ ॥ युग्मम् ॥ इत्यादिदेशनां श्रुत्वा सिंहदास श्रेष्ठी मुनिं जगौ - भगवन् ! केन कर्मणा मम सुतातनौ रोगा जाताः ? गुरुणा ऊचे - महाभाग ! कर्मणा किं न सम्भवेत् ? अत्र श्रेष्ठिन् ! अस्याः पूर्वभवः श्रूयताम् धातकीखण्डमध्यस्थभरते खेटकनाम

Loading...

Page Navigation
1 ... 208 209 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240 241 242 243 244 245 246