________________
सौभाग्यपञ्चमीकथा • १९३
न प्राप । इतश्च तत्रैव पुरे सप्तकोटीसुवर्णाधीशो १० जिनधर्मरतः प्रसिद्धिभाक् सिंहदासो नाम श्रेष्ठी, तस्य गृहे गुणोचिता ११ तिलकानाम्नी भार्या तयोः पुत्री गुणमञ्जरी आजन्मतो रोगैरुपद्रुता १२ वचनेन मूकतां १३ प्राप्ता बभूव । विविधैरोषधैरपि तस्या रोगशान्तिर्न जायते न च यौवने तां कोऽप्युद्वहति १४ । तस्याः षोडशवार्षिक्या दुःखेन मातापित्रादिः सकलस्वजनो दुःखितः समजायत । तत्रैव पुरे एकदा श्रीविजयसेनसूरयश्चतुर्ज्ञानधरा गुरवः समाजग्मुः । तदा सर्वोऽपि नागरिकलोक : १५ सपुत्रो भूपतिः सकुटुम्बः सिंहदासः श्रेष्ठी सर्वे वन्दनार्थमुपगता गुरुणा च धर्मदेशना प्रारब्धाज्ञानस्याराधने यत्नोऽध्ययनश्रवणादिभिः । भव्यैर्विधेयः सततं निर्वाणपदमिच्छुभिः ॥१॥ विराधयन्ति ये ज्ञानं मनसा ते भवान्तरे । नराः स्युः शून्यमनसो विवेकपरिवर्जिताः ॥ २ ॥ विराधयन्ति ये ज्ञानं वचसापि हि दुर्धियः । मूकत्वमुखरोगित्वदोषास्तेषामसंशयम् ॥३॥ विराधयन्ति ये ज्ञानं कायेनायत्नवर्तिना । दुष्टकुष्ठादिरोगा : १६ स्युस्तेषां देहे विगर्हिते १७ ॥४॥ मनोवाक्काययोगैर्ये ज्ञानस्याऽऽशातनां सदा । कुर्वते मूढमतयः कारयन्ति परानपि ॥५॥ तेषां परभवे पुत्रकलत्रसुहृदां १८ क्षयः । धनधान्यविनाशश्च तथाऽऽधिव्याधिसम्भवः ॥ ६ ॥ युग्मम् ॥
इत्यादिदेशनां श्रुत्वा सिंहदास श्रेष्ठी मुनिं जगौ - भगवन् ! केन कर्मणा मम सुतातनौ रोगा जाताः ? गुरुणा ऊचे - महाभाग ! कर्मणा किं न सम्भवेत् ? अत्र श्रेष्ठिन् ! अस्याः पूर्वभवः श्रूयताम् धातकीखण्डमध्यस्थभरते खेटकनाम