________________
१९४ • सुलभ-चरित्राणि नगरम्, तत्र जिनदेवनामा श्रेष्ठी । सुन्दरीनाम्नी च तस्य गेहिनी, तयोः पञ्च पुत्राःआशपालः, तेजपालः, गुणपालः, धर्मपालः, धनसार इतिनामानोऽभूवन् । तथा लीलावती, शीलावती, रङ्गावती, मङ्गावती इतिनामानश्चतस्रश्च पुत्र्योऽभूवन् ।
____ अथ एकदा जिनदेवेन पञ्चापि तनयाः पण्डितसमीपे विद्याकलाग्रहणार्थं स्थापिताः । ते च चापल्यं ९ कुर्वते परन्तु अध्यननं न कुर्वन्ति, यदा पण्डितस्तान् २० कम्बया ताडयति तदा ते रुदन्तो गृहमागत्य मातुः समीपे दुःखं निवेदयन्तिमाता उवाच-पठनेन किं प्रयोजनम् ? यतः
पठितेनाऽपि मर्तव्यं शठेनाऽपि तथैव च । उभयोमरणं दृष्ट्वा कण्ठशोषं करोति कः ? ॥१॥
पण्डितस्यापि उपालम्भं२१ दत्ते ईर्ष्णया च पुस्तिकां प्रज्वालयामास । पुत्रान् वक्ति पठनार्थं भवद्भिर्न गन्तव्यम् । श्रेष्ठी एतद् व्यतिकरं ज्ञात्वा प्रोवाचहे भद्रे ! जडानां पुत्राणां कः कन्याः प्रदास्यति ? कथं चैते व्यवसायं करिष्यन्ति ? यतः
माता शत्रु पिता वैरी बालो येन न पाठितः । न शोभते सभामध्ये हंसमध्ये बको यथा ॥१॥ विद्वत्त्वं च नृपत्वं च नैव तुल्यं कदाचन । स्वदेशे पूज्यते राजा विद्वान् सर्वत्र पूज्यते ॥२॥
इति श्रेष्ठिवचनं श्रुत्वा सा प्रोवाच-यूयं किं न पाठयथ ? अत्र मम को दोषः? इत्युक्ते श्रेष्ठी २२हक्कितः सन् मौनं चकार । अथ अनुक्रमेण ते पञ्चापि तयोः पुत्रा यौवनं प्रापुः परं न कोऽपि तेभ्यः कन्यां दत्ते, मूर्खत्वात्, ततः श्रेष्ठी स्त्री प्रति जगौ-पापिष्ठे ! त्वया पुत्रा मूर्खा एव रक्षिताः, कोऽपि कन्यां न ददाति, सा उवाच - तव पिता पापिष्ठः येनैवं मूढमतिना शिक्षितोऽसि यतःआः ! किं सुन्दरि ! सुन्दरं न कुरुषे ? किं नो करोषि स्वयं ? आः ! पापे ! प्रतिजल्पसि प्रतिपदं ? पापस्त्वदीयः पिता ।