________________
सौभाग्यपञ्चमीकथा • १९५ धिक् त्वां २३क्रोधमुखीमलीकमुखरां त्वत्तोऽपि कः कोपनो, दम्पत्योरिति नित्यदन्तकलहक्लेशार्तयो:२४ किं सुखम् ? ॥१॥
एतद्वचनमाकर्ण्य रुष्टेन जिनदेवेन २५उपलेन सा शिरोमर्मणि जघ्ने, तदा सा मृता सा च तव पुत्री समजायत । अनया ज्ञानस्याऽऽशातना पूर्वभवे चक्रे तेन रोगोत्पत्तिर्जज्ञे, यतः
कृतकर्मक्षयो नास्ति कल्पकोटिशतैरपि । अवष्यमेव भोक्तव्यं कृतं कर्म शुभाशुभम् ॥१॥
इति गुरोर्वचनं श्रुत्वा सा गुणमञ्जरी २६जातजातिस्मृत्या पूर्वभवं ददर्श । ततो गुरुं प्रति सा सत्यमिति प्रोवाच । श्रेष्ठिना गुरुः पृष्टः- भगवन् ! अस्या रोगाः कथं प्रयास्यन्ति ? गुरुणाऽभाणि-श्रेष्ठिन् ! ज्ञानस्याऽऽराधनतः सर्वं सुखं सम्पद्यते दुःखं च विलयं याति । ज्ञानस्य चाराधनमित्थम् -
विधिना शुक्लपञ्चमीदिने उपवासो विधीयते, पुस्तिकां पट्टे संस्थाप्य पुरः स्वस्तिकः क्रियते, २८पञ्चवर्तिमयो दीपश्च क्रियते, पञ्चफलानि २९पञ्चवर्णकं च धान्यं ढौक्यन्ते, पञ्चवर्षाणि पञ्च मासान् यावत् अनया रीत्या मनोवाक्कायशुद्धया समाराधनीया । यदि मासे मासे कर्तुं न शक्नोति तदा कार्तिकमासस्य शुकलपञ्चमी यावज्जीवमाराधनीया । सा सम्यगाराधिता सर्वं सुखं दत्ते इति गुरुवचनं श्रुत्वा जिनदेवोऽब्रवीत् - भगवन् ! मम तनयायाः तपस्याशक्तिर्न विद्यते, अतः कार्तिकपञ्चम्या विधिरादिश्यताम् । वाचंयम:३० प्रोचे-कार्तिकशुक्लपञ्चमीदिने पुस्तकं पट्टे संस्थाप्य सुगन्धपुष्पैः सम्पूज्य धूपोत्क्षेपपूर्वकं पञ्चवर्णानि धान्यानि पञ्च पक्वान्नानि पञ्च फलानि च ढौक्यन्ते । ततो गुरोरग्रे गत्वा भक्त्याऽभिवन्द्य यथाविधि उपवासस्य प्रत्याख्यानं क्रियते । तस्मिन् दिने 'नमो नाणस्स' इति ३१पदमेकसहस्रसङ्ख्यया उत्तराभिमुखेन गुण्यते । चेत् पौषधः क्रियते तदा तद्दिने अयं विधिर्न भवेत्, तस्मात् पारणकदिने विधिः कार्यः, यथाशक्ति उद्यापनादि अपि विधेयम् । ततो गुणमञ्जर्या तत् तपः प्रतिपन्नम्।