________________
१९६ • सुलभ-चरित्राणि अस्मिन्नवसरे राजा पृच्छति हे ३२साधुपुरन्दर ! मत्सूनोः वरदत्तस्य कुष्ठरोगः कथमभवत् ? पठनं च किं नाऽऽयाति ? तस्य किं कारणम् ? । गुरुः जगाद अस्यापि पूर्वभवं शृणु-जम्बूद्वीपे भरतक्षेत्रे श्रीपुरनाम नगरम्, तत्र वसुनामा श्रेष्ठी वसति स्म, तस्य वसुसार-वसुदेवौ पुत्रौ, तौ एकदा क्रीडार्थं वने जग्मतुः, तत्र वने मुनिसुन्दरनामानः सूरयो दृष्टा वन्दिताश्च । गुरुभिर्धर्मदेशना प्रारब्धा
यत्प्रातः संस्कृतं धान्यं ३३मध्याह्ने तद् विनश्यति । ३ तदीयरसनिष्पन्ने काये का नाम सारता ॥१॥
इत्यादिदेशनां श्रुत्वा तातमापृच्छ्य वैराग्यात् तौ व्रतं जगृहतुः । लघुना वसुदेवना चारित्रं बिभ्रता सिद्धान्तसारः सर्वोऽपि अधीतः । गुरुणा वसुदेवाय सूरिपदं दत्तम्, स च पञ्चशतसाधुभ्यो वाचनां ददाति । एकदा वसुदेवसूरीश्वरो - ३५रूजाऽऽक्रान्तः संस्तारके२६ सुप्तः, तं कोऽपि साधुः आगमार्थं पृच्छति, गुरुर्व्याख्यायति, तस्मिन् गते द्वितीयो मुनिः समागतः तस्मै वाचना दत्ता, एवं भूयस्सु समागत्य समागत्य गतेषु किञ्चिन्निद्रायमाणः केनाऽपि साधुना पृष्टो भगवान् ! अग्रेतनं पदं वाच्यं पदस्यार्थोऽपि वाच्यः । तदा सूरिः कुविकल्पना३७ हृदि चिन्तयामास कृतपुण्यो मम बृहद्भाता, मूर्खत्वात् तस्मै प्रष्टुं कोऽपि न याति, स्वैरं भुङ्क्ते, भाषते शेते च, अत एव मूर्खे बहवो गुणाः सन्ति यत उक्तम्मूर्खत्वं हि सखे ! ममापि रुचितं तस्मिन् यदष्टौ गुणा, निश्चिन्तो बहुभोजनोऽत्रपमना३८ नक्तं३९ दिवा शायकः । कार्याऽकार्यविचारणान्धबधिरो मानापमाने समः, प्रायेणाऽऽमयवर्जितो दृढवपुर्मूर्खः सुखं जीविति ॥१॥इति ।
अतः परं न कस्मै पदमात्रमपि कथयिष्यामि नवं पदं च न पाठयिष्यामि इति विचार्य शरीरे रोगाऽऽक्रान्तो द्वादश दिवसान् मौनं चकार । तत्पातकमनालोच्य४१ आर्तध्यानपरो मृत्वा राजन् तव सुतो जातः । पूर्वोपार्जितेन तेन कर्मणा अतीव मूर्खः कुष्ठादिरोगाऽऽक्रान्ततनुश्च बभूव । एतद् गुरोर्वचनं