SearchBrowseAboutContactDonate
Page Preview
Page 209
Loading...
Download File
Download File
Page Text
________________ [२२] ॥ सौभाग्यपञ्चमीकथा ॥ ॥ज्ञानपञ्चमीव्याख्यानम् ॥ श्रीमत्पार्श्वजिनाधीशं सुराऽसुरनमस्कृतम् । प्रणम्य परया भक्त्या सर्वाभीष्टार्थसाधकम् ॥१॥ कार्तिकशुल्कपञ्चम्या माहात्म्यं वर्ण्यते मया । भव्यानामुपकाराय यथोक्तं पूर्वसूरिभिः ॥२॥ युग्मम् ॥ भुवने हि परं ज्ञानं ज्ञानं सर्वार्थसाधकम् । अनिष्टवस्तुविस्तारवारकं ज्ञानमीरितम् ॥३॥ ज्ञानादासद्यते मुक्तिर्ज्ञानात् स्वर्णोद्भवं सुखम् । लभन्ते प्राणिनो यस्मात् तज्ज्ञानं 'स्वर्द्वमोपमम् ॥४॥ भव्यैरासाद्यते ज्ञानं पञ्चम्याराधनाद् ध्रुवम् । अतः ५प्रमादमत्सज्याऽऽराध्या सा विधिना तथा ॥५॥ मञ्जरीवरदत्ताभ्यां यथैवाराधिता किल । पञ्चमी भावतोऽथात्र दृष्टान्तः प्रोच्यते तयोः ॥६॥ युग्मम् ॥ अस्त्यत्र जम्बूद्वीपे दक्षिणार्धभरतक्षेत्रे पद्मपुराभिधं नगरम्, तत्र भुवि विश्रुतोऽजितसेनो नृपो बभूव, तस्य यशोमती पट्टराज्ञी, तयोः रूपलावण्यशोभनो वरदत्तनामा पुत्रो बभूव । सोऽष्टवर्षप्रमाणः पित्रा ‘बुधान्तिके विद्याग्रहणहेतवे स्थापितः । परमक्षरमात्रं तस्य मुखे न चटति, अध्यापकस्योद्यमो निष्फलोऽभूत् । क्रमात् स यौवनं प्राप्तः पूर्वकर्मोदयात् कुष्ठेन विनष्टदेहत्वात् कुत्रापि रति
SR No.022626
Book TitleSulabh Charitrani Part 01
Original Sutra AuthorN/A
AuthorVajrasenvijay
PublisherBhadrankar Prakashan
Publication Year
Total Pages246
LanguageSanskrit
ClassificationBook_Devnagari
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy