Book Title: Sulabh Charitrani Part 01
Author(s): Vajrasenvijay
Publisher: Bhadrankar Prakashan

View full book text
Previous | Next

Page 218
________________ श्रीकार्तिकपर्णिमाकथा • २०१ यदा विंशतिलक्षपूर्वाणि व्यतीतानि तदा स्वामी राज्यभोक्ता जातः, क्रमेण त्रिषष्टिपूर्वलक्षवर्षं राज्यं प्रपाल्य दीक्षाऽवसरं ज्ञात्वा भरतस्य स्वमूलराज्यविनीता दत्ता, बाहुबलाय तक्षशिला प्रदत्ता, एवं क्रमेण शतपुत्रेभ्यो राज्यं वासयित्वा स्वस्वनाम्ना देशाः प्रदत्ताः । तन्मध्ये एको 'द्रविड' इत्यभिधानः, तस्य द्रविडदेशं कञ्चनपुरनगरं च वासयित्वा ददौ । स्वामी दीक्षां ललौ । क्रमेण कर्मक्षये केवलज्ञानमुत्पन्नम्, अथ भगवाननेककोटाकोटीदेवपरिवारेण परिवृतः साधुसाध्वीसमुदायेन सह देशेषु विहृत्य धर्मवृद्धिं चकार। ___ अथ द्रविडराजाऽपि पितृदत्तं राज्यं बुभुजे, स्वनार्या सार्धं विषयसुखमनुभवस्तस्य क्रमेण द्वौ पुत्रौ बभूवतुः, बृहत्पुत्रो द्राविड: अपरो वारिखिल्लो लघिष्ठः, क्रमेण भोगसमर्थौ ज्ञात्वा उभयपुत्रौ प्रति भार्याः विवाहिताः । तावपि विषयसुखं बुभुजाते तद्भार्ययाऽपि पुत्राः प्रसूताः, तेऽपि चन्द्रकलेव ववृधिरे, एवं द्रविडराजा स्वराज्यं सुखेन प्रपालयति स्म । अथ तस्मिन्नवसरे भरतेन स्वाज्ञाज्ञापनार्थमष्टनवतिभ्रातृपार्श्वे दूतो मुमुचे, तदा द्रविडराजा दूतमुखात् सर्वं भरतस्य चक्रवर्तिपदस्वरूपं ज्ञात्वा एवं सर्वेऽपि सम्मील्य स्वस्वपुत्रं राज्यं ददौ, तदा द्रविडराजाऽपि द्राविडबृहत्पुत्राय राज्यं प्रददौ । कनिष्ठाय वारिखिल्लाय च एकलक्ष ग्रामान् पृथग् ददौ स्वयं च संसारवासना परित्यज दीक्षां गृहीत्वा यथेच्छं पर्यटन् श्रीऋषभदेवजिनपार्वे तपस्तत्त्वा कैवल्यं प्राप । अथ द्राविड: पित्रा दत्तं स्वराज्यं, वारिखिल्लोऽपि पितृदत्त-स्वराज्यं लक्षग्रामं प्रपालयति स्म । कानिचिद् वर्षाणि गतानि । तस्मिन्नवसरे द्राविडराजा स्वमनसि एवं चिन्तयति स्म, मत्पित्रा दीक्षावसरे मल्लघुभ्रातरं प्रति लक्षग्रामं दत्तं तद्भव्यं न कृतम्, मद्राज्यन्यूनता कृता, परमहमेतद्राज्यमुद्दाल्य ग्रहीष्यामि । एतद् विचिन्त्य स्वसैन्यं सम्मील्य युद्धार्थं चचाल । तदा वारिखिल्लोऽपि भ्रातुरागमनवृत्तान्तं श्रुत्वा स्वसैन्यमादाय सम्मुखं चचाल स्वदेशसीमां च रुरोध क्रमेणोभयभ्रातृबहुसेनासमुदायेन द्वादशवर्षं यावत् महायुद्धकरणे बहवो गजा अश्वा मनुजा

Loading...

Page Navigation
1 ... 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240 241 242 243 244 245 246