________________
श्रीकार्तिकपर्णिमाकथा • २०१ यदा विंशतिलक्षपूर्वाणि व्यतीतानि तदा स्वामी राज्यभोक्ता जातः, क्रमेण त्रिषष्टिपूर्वलक्षवर्षं राज्यं प्रपाल्य दीक्षाऽवसरं ज्ञात्वा भरतस्य स्वमूलराज्यविनीता दत्ता, बाहुबलाय तक्षशिला प्रदत्ता, एवं क्रमेण शतपुत्रेभ्यो राज्यं वासयित्वा स्वस्वनाम्ना देशाः प्रदत्ताः । तन्मध्ये एको 'द्रविड' इत्यभिधानः, तस्य द्रविडदेशं कञ्चनपुरनगरं च वासयित्वा ददौ । स्वामी दीक्षां ललौ । क्रमेण कर्मक्षये केवलज्ञानमुत्पन्नम्, अथ भगवाननेककोटाकोटीदेवपरिवारेण परिवृतः साधुसाध्वीसमुदायेन सह देशेषु विहृत्य धर्मवृद्धिं चकार।
___ अथ द्रविडराजाऽपि पितृदत्तं राज्यं बुभुजे, स्वनार्या सार्धं विषयसुखमनुभवस्तस्य क्रमेण द्वौ पुत्रौ बभूवतुः, बृहत्पुत्रो द्राविड: अपरो वारिखिल्लो लघिष्ठः, क्रमेण भोगसमर्थौ ज्ञात्वा उभयपुत्रौ प्रति भार्याः विवाहिताः । तावपि विषयसुखं बुभुजाते तद्भार्ययाऽपि पुत्राः प्रसूताः, तेऽपि चन्द्रकलेव ववृधिरे, एवं द्रविडराजा स्वराज्यं सुखेन प्रपालयति स्म । अथ तस्मिन्नवसरे भरतेन स्वाज्ञाज्ञापनार्थमष्टनवतिभ्रातृपार्श्वे दूतो मुमुचे, तदा द्रविडराजा दूतमुखात् सर्वं भरतस्य चक्रवर्तिपदस्वरूपं ज्ञात्वा एवं सर्वेऽपि सम्मील्य स्वस्वपुत्रं राज्यं ददौ, तदा द्रविडराजाऽपि द्राविडबृहत्पुत्राय राज्यं प्रददौ । कनिष्ठाय वारिखिल्लाय च एकलक्ष ग्रामान् पृथग् ददौ स्वयं च संसारवासना परित्यज दीक्षां गृहीत्वा यथेच्छं पर्यटन् श्रीऋषभदेवजिनपार्वे तपस्तत्त्वा कैवल्यं प्राप । अथ द्राविड: पित्रा दत्तं स्वराज्यं, वारिखिल्लोऽपि पितृदत्त-स्वराज्यं लक्षग्रामं प्रपालयति स्म । कानिचिद् वर्षाणि गतानि । तस्मिन्नवसरे द्राविडराजा स्वमनसि एवं चिन्तयति स्म, मत्पित्रा दीक्षावसरे मल्लघुभ्रातरं प्रति लक्षग्रामं दत्तं तद्भव्यं न कृतम्, मद्राज्यन्यूनता कृता, परमहमेतद्राज्यमुद्दाल्य ग्रहीष्यामि । एतद् विचिन्त्य स्वसैन्यं सम्मील्य युद्धार्थं चचाल । तदा वारिखिल्लोऽपि भ्रातुरागमनवृत्तान्तं श्रुत्वा स्वसैन्यमादाय सम्मुखं चचाल स्वदेशसीमां च रुरोध क्रमेणोभयभ्रातृबहुसेनासमुदायेन द्वादशवर्षं यावत् महायुद्धकरणे बहवो गजा अश्वा मनुजा