________________
२०२ • सुलभ- - चरित्राणि
भूमौ पतिताः, रुधिरसरितः प्रचलिताः एतादृशः सङ्ग्रामो जायते, तस्मिन् समये द्राविडराजा वनक्रीडाकरणार्थं वने जगाम, तद् वनमनेकाम्रनिम्बकदम्बादिगुल्म "लतापत्रपुष्पफलवनद्धर्या विभ्राजमानं सरोनिर्झरणैः ६ शोभितमेतादृशं वनं द्राविडराजा पश्यति, तस्मिन्नेव वनमध्यभागे तापसगणास्तपः कुर्वन्ति, ते परिव्राजका राज्ञा ददृशिरे । अश्वादुत्तीर्य तत्पार्श्वे गत्वाऽभिवन्द्य स्वोचितस्थाने तस्थौ । तस्मिन्नवसर एकेन तापसेन धर्मोपदेशो दत्तः, तन्मध्ये संसारासारताऽपि दर्शिता, तदुक्तम्
गयकन्नचञ्चलाई ̈ अपरिचिताइ' रायलच्छी । जीवा सकम्मकलमलभरियभरातो पडन्ति अहे ॥१॥
इत्यादिधर्मोपदेशं श्रुत्वा संसारमसारं ज्ञात्वा क्रोधं त्यक्त्वा एवं मनसि चिन्तयति-अहो मम जीवितं धिक्, एक एव मद्भ्रता तेन सहाहं युध्ये, द्ददश वर्षाणि सञ्जातानि, एतदनिष्टं कार्यं कृतं स्तोकजीवनोपरि एतद् वैरं किं क्रियते, राज्यलोभाद् एतदनिष्टं कृतम्, एवं विचार्य द्राविडस्तापसा श्रमादुत्थाय १॰ स्वसहोदरापराधक्षमाणार्थं वारिखिल्लसेनामध्ये आयाति तावद् वारिखिल्लो बृहद्भ्रातुरागमनवृत्तान्तं श्रुत्वा सम्मुखमागत्य चरणयोर्निपतत्, स च द्राविडो ११ बाष्पपूर्णनयनः स्नेहार्द्रहृदयस्तमुत्थाप्य इति जजल्प- हे भ्रातः ! एतत् सर्वमपि राज्यं त्वं गृहाण, अहं तापसीं दीक्षां ग्रहीष्यामि तदा वारिखिल्ल इत्युवाच अहमपि राज्यपदं न ग्रहीष्यामि, एतद्वचनपरस्परालापनां कृत्वा स्वस्वपुत्राभ्यामर्धार्धं राज्यं विभज्य राज्यं दत्वा स्वस्वापत्यस्य १२ स्वस्वस्थाने प्रेषितवन्तौ तौ पुत्रावपि स्वं स्वं राज्यं बुभुजाते ।
अथ द्राविडवारिखिल्लावपि पञ्चपञ्चकोटिक्षत्रियपरिवारेण परिवृतौ तापसाश्रमे गत्वा तापसपार्श्वे तापसीं दीक्षां जगृहतुः, आतापनां चक्रतुः, कन्दमूलाद्याहारं कुर्वन्तौ १३ वल्कलचीवरं धारयतः, तपःकरणेन कृशतनू १४ जातौ । एवं बहुकालो गतः । अथास्मिन्नवसरे केचित् साधवस्तीर्थयात्राकरणार्थं