________________
श्रीकार्तिकपर्णिमाकथा • २०३ मार्गे तत्रैव वने आगताः, द्राविडवारिखिल्लावपि तान् साधूनवलोक्य बह्वादरं दत्तवन्तौ, साधवोऽपि गमनागमनमालोच्य भूमिं प्रमाM तरोस्तले स्थिताः, द्राविडवारिखिल्लावपि १५मुखाग्रे उपविष्टौ, तस्मिन्नवसरे तरुशाखात एकश्चटको१६ मुखाग्रे पतितः, तं चटकं स्तोकायुषं१७ ज्ञात्वा मुनिना करुणया विचार्य नमस्कार: सुश्रावित:,१८ विमलगिरेमहिमा कथितः, तेन चटकेन मनसि धर्मोपदेशो दधे, तद्धर्मप्रभावात् प्रथमकल्पे देवो जातः, स देवः साधिकमुहूर्तान्तरे मुनीनां पार्श्व आगत्य मुनीनां चरणानानम्य मुनीनामग्रे उपविष्टः, तस्मिन्नवसरे देवस्य महद्धिरूपं चावलोक्य द्राविडवारिखिल्लौ मुनिं प्रति पप्रच्छतुः, हे स्वामिन् अयमत्यन्तरूपकान्तिधारक:१९ कः सुरोऽस्ति ? तदा मुनिराह अयं चटको मृत्वा एतत्स्थानात् सुरः उत्पन्नोऽस्ति, नमस्कारश्रवणेन तीर्थराजशत्रुञ्जयोज्ज्वलभावधारणेन चास्मिन् समये तीर्थराजमानम्य अत्रागतोऽस्ति ।
एतद्गुरुमुखान्निशम्य तौ पुनः पप्रच्छतुः हे स्वामिन् ! स विमलिगिरिः कीदृशोऽस्ति किञ्च तन्माहात्म्यमित्यावयोरुपरि कृपां कृत्वा सुश्रावय, तदा मुनिराह
___अस्मिन् जम्बूद्वीपे दक्षिणार्धभरते श्री शत्रुञ्जयगिरिष्टोत्तरशत (१०८) नाम्नाऽलङ्कृतो महातीर्थमस्ति, पुनः शत्रुञ्जयः १ पुण्डरीक: २ सिद्धगिरिः ३ विमलगिरिः ४ सुरगिरिः ५ इत्यादिभिः एकविंशतिनामभिः लोके प्रसिद्धोऽस्ति, एष गिरि मनिक्षेपेण निश्चलोऽस्ति, २०अनन्तकालापेक्षया सिद्धशैलोपरि अनन्ता मुनयो मुक्ति गताः, पूर्वमपि सम्प्रतिनाम्नश्चतुर्विंशतितमजिनस्य प्रथमगणधरः कदम्बगिरिनामा मुक्ति गतः, इहैव वर्तमानकाले प्रथमजिनस्य प्रथमगणधरः पुण्डरीकनामा चैत्रशुक्लपूर्णिमायां पञ्चकोटिमुनिभिः सह श्रीशत्रुञ्जये शिवपुरी गतः । तेन पुण्डरीकगिरिरिति कथ्यते ।
पुनः द्विद्विकोटिपरिवारेण परिवृत्तौ फाल्गुनशुक्लदशम्यां नमिविनमी