SearchBrowseAboutContactDonate
Page Preview
Page 217
Loading...
Download File
Download File
Page Text
________________ [२३] ॥ श्रीकार्त्तिकपर्णिमाकथा ॥ श्रीसिद्धाचलतीर्थेशं नत्वा श्रीऋषभं प्रभुम् । कार्तिकपूर्णिमायाश्च व्याख्यानं वक्ष्यते मया ॥१॥ सिज्झो विज्जायरचक्की नमि विनमि पुंडरीओ मुणींदो, वाली पज्जुन्नसंबो भरहसुगमुनि सेलगो पंथगो य । रामो कोडी पंच द्दविडनरवई नारओ पण्डुपुत्ता, मुत्ता एवं अणेगे विमलगिरिमहं तित्थमेयं नमामि ॥२॥ ___ व्याख्या-भो भव्याः ! एतादृशं पापकर्मकमलपरिहारकं श्रीविमलाचलतीर्थं मनोवाक्कायैर्नमामि, तद् विमलाचलतीर्थं कीदृशम् ? यद् यस्मिन् तीर्थोपरि विद्याधरः चक्री भरतः, नमिविनमी, शुक-शैलकपन्थक-रामचन्द्रद्राविड-वारिखिल्लनवनारद-पाण्डव-पुण्डरीकाद्या अनशनं विधाय अष्ट कर्मारीन् हत्वा मुक्ति गताः । एतादृशं सिद्धशैलं तीर्थं मनोवाक्काययोगेन नमामि । पुनरस्मिन् कार्तिकपूर्णिमागमने श्रीशत्रुञ्जयगिरिसम्मुखदिशं गत्वा चैत्यवन्दनकरणे महती धर्मवृद्धिर्भवति, पुनरस्मिन् कार्तिकपूर्णिमाया दिने श्रीसिद्धशैले द्राविडवारिखिल्लौ आरोहणेन शिवपुरी प्राप्तौ, तदृष्टान्तो यथा ___ अस्मिन् जम्बूद्वीपे दक्षिणभरतार्धस्य मध्यमखण्डे इक्ष्वाकुभूम्यामस्यामवसर्पिण्या पूर्वं सप्तमः कुलकरो नाभिनामा बभूव, तद्भार्या मरुदेवी, तस्या उदरकन्दरायां श्रीप्रथमतीर्थङ्करश्रीऋषभजिन उत्पन्नः, स षट्पूर्वलक्षाणि कुमारपदे स्थितः, तदनन्तरमिन्द्रेण सुनन्दा, सुमङ्गला परिणायिते, स्वामिनः संसारव्यवहारो वर्तते स्म, क्रमेण भरतबाहुबल्याद्याः शतं पुत्रा, द्वे पुत्र्यौ अभूवन्,
SR No.022626
Book TitleSulabh Charitrani Part 01
Original Sutra AuthorN/A
AuthorVajrasenvijay
PublisherBhadrankar Prakashan
Publication Year
Total Pages246
LanguageSanskrit
ClassificationBook_Devnagari
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy