Book Title: Sulabh Charitrani Part 01
Author(s): Vajrasenvijay
Publisher: Bhadrankar Prakashan
View full book text
________________
२०४ • सुलभ-चरित्राणि विद्याधरराजर्षी २१ श्रीसिद्धशैले शिवपुरं गतौ, पुन: नमिविनमिराज्ञोः पुत्र्यश्चतुष्षष्टिः (६४) विमलगिरौ चैत्रशुक्लचतुर्दश्यामनशनं कृत्वा शिवपुरी प्राप्ताः, तेन शिवमन्दिरारोहणे२२ सोपानसदृशो वाच्यः, पुन: पापमलपरिहारणे नीरवद् ज्ञेयः, ते विमलगिरिरिति कथ्यते, पुनः पापारिगञ्जनेऽतीव२३ शूरवद् ज्ञेयः, पुनर्येन नरभवं प्राप्य शत्रुञ्जये गत्वाऽऽदिजिनभक्तिपूर्वकं द्रव्यभावाऽर्चनं न कृतं तेन नरत्वं पशुरिव हारितम्, यस्तीर्थबुद्ध्या स्वहृदये सम्प्रधार्य श्रीशत्रुञ्जये गत्वा आदिजिनं नमति तस्य जीवितं सफलं स्यात्, स्तोक-कालमध्ये शिवसुखं प्राप्नोति।
एवं गुरुमुखात् सिद्धगिरेर्महान्तं महिमानं२४ श्रुत्वा । सिद्धशैलपर्वतवन्दनार्थं पञ्चपञ्चकोटिमुनिपरिवारपरिवृतौ द्राविडवारिखिल्लौ वल्कलचीवरधारिणौ तापसौ स्वगुरोराज्ञां गृहीत्वा श्रीशत्रुञ्जयं प्रति चेलतुः, गुरुरपि अन्यत्र स्थाने विजहार, अथ द्राविडवारिखिल्लौ क्रमेण सपरिवारौ श्रीशत्रुञ्जयगिरौ आरोहणसमये एतादृशमवग्रहं२५ जग्राह - यदाऽऽवयोः कर्मक्षयो भविष्यति तदाऽहारं ग्रहीष्यावः, एवं द्राविडवारिखिल्लौ चतुर्मासकालावग्रहमभिगृह्य श्रीशत्रुञ्जये चतुर्मास्यां तस्थतुः, भावतः साधुधर्ममङ्गीचक्रतुः, आत्मानं २६भावानुसारिणं प्रवर्तयन्तौ तपः तप्तवन्तौ शुभध्यानयोगेन कर्मराशिदूरीकरणेन २७चतुर्मासीप्रान्तदिवसे प्रवर्तमाने कार्तिकशुक्लपूर्णमासीदिने क्षीणमोहेन त्रयोदशगुणस्थानकारोहणेन शुक्लध्यानेन ध्यायमानेन घनघातिचतुष्कर्मराशिक्षपणेन केवलज्ञानं केवलदर्शनं च तयोरुत्पन्नम्, चतुर्दशरज्जुलोकं ददृशतुः, बहुभव्यजीवान् प्रतिबोध्याऽऽयुष्यकर्मादिचतुष्कर्मराशि क्षपयित्वा द्राविडवारिखिल्लराजर्षी दशकोटिमुनिभिः सह मुक्तिपुरीं प्रापतुः, अचलाक्षयगति शिवं निरुपद्रवं पदं लब्धम्।
तेन कार्तिकशुक्लपूर्णिमाऽतीवोत्तमा वर्तते, तस्माद् अद्य दिवसे श्रीशत्रुञ्जयसम्मुखं गत्वा महताऽऽडम्बरेण श्रीयुगादिजिनबिम्बं रथे संस्थाप्य पूजास्नात्रमहोत्सवादिकरणेन महाकर्मराशि: २८दूरीक्रियते, महती पुण्यवृद्धिश्चं

Page Navigation
1 ... 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240 241 242 243 244 245 246