Book Title: Sulabh Charitrani Part 01
Author(s): Vajrasenvijay
Publisher: Bhadrankar Prakashan
View full book text
________________
[२२] ॥ सौभाग्यपञ्चमीकथा ॥
॥ज्ञानपञ्चमीव्याख्यानम् ॥ श्रीमत्पार्श्वजिनाधीशं सुराऽसुरनमस्कृतम् । प्रणम्य परया भक्त्या सर्वाभीष्टार्थसाधकम् ॥१॥ कार्तिकशुल्कपञ्चम्या माहात्म्यं वर्ण्यते मया । भव्यानामुपकाराय यथोक्तं पूर्वसूरिभिः ॥२॥ युग्मम् ॥ भुवने हि परं ज्ञानं ज्ञानं सर्वार्थसाधकम् । अनिष्टवस्तुविस्तारवारकं ज्ञानमीरितम् ॥३॥ ज्ञानादासद्यते मुक्तिर्ज्ञानात् स्वर्णोद्भवं सुखम् । लभन्ते प्राणिनो यस्मात् तज्ज्ञानं 'स्वर्द्वमोपमम् ॥४॥ भव्यैरासाद्यते ज्ञानं पञ्चम्याराधनाद् ध्रुवम् । अतः ५प्रमादमत्सज्याऽऽराध्या सा विधिना तथा ॥५॥ मञ्जरीवरदत्ताभ्यां यथैवाराधिता किल । पञ्चमी भावतोऽथात्र दृष्टान्तः प्रोच्यते तयोः ॥६॥ युग्मम् ॥
अस्त्यत्र जम्बूद्वीपे दक्षिणार्धभरतक्षेत्रे पद्मपुराभिधं नगरम्, तत्र भुवि विश्रुतोऽजितसेनो नृपो बभूव, तस्य यशोमती पट्टराज्ञी, तयोः रूपलावण्यशोभनो वरदत्तनामा पुत्रो बभूव । सोऽष्टवर्षप्रमाणः पित्रा ‘बुधान्तिके विद्याग्रहणहेतवे स्थापितः । परमक्षरमात्रं तस्य मुखे न चटति, अध्यापकस्योद्यमो निष्फलोऽभूत् । क्रमात् स यौवनं प्राप्तः पूर्वकर्मोदयात् कुष्ठेन विनष्टदेहत्वात् कुत्रापि रति

Page Navigation
1 ... 207 208 209 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240 241 242 243 244 245 246