Book Title: Sulabh Charitrani Part 01
Author(s): Vajrasenvijay
Publisher: Bhadrankar Prakashan
View full book text
________________
१९० • सुलभ-चरित्राणि क्रमेण आचार्यपदे च सम्पाप्तः, ततः क्षपक श्रेण्यारोहणार्थमष्टमगुणस्थाने शुक्लध्यानं ध्यातुमुद्यतो बभूव । ___ततः कर्मेण कर्माणि क्षपयन् द्वादशगुणस्थानान्त्यप्रसमये घातिकर्मचतुष्टयं शुक्लध्यानेन क्षपयित्वा त्रयोदशगुणस्थानप्रथमसमये केवलज्ञानं प्राप्य बहून् भव्यान् प्रतिबोधयन् पृथिव्यां विजहार । ततः द्विसप्ततिपूर्वलक्षाणि सर्वायुः प्रपाल्य चतुर्दशे गुणस्थाने पञ्चहस्वाक्षरोच्चारणकालमाने योगनिरोधं कृत्वा शेषकर्मचतुष्टयं क्षपयित्वा मुक्ति प्राप्तः इह शरीरं त्यक्त्वा पूर्वप्रयोगबन्धच्छेदादिना सिद्धशिलोपरि योजनान्ते सिद्धक्षेत्रे एकस्मिन् समये गत्वा २४साधनन्तस्थित्या स्थितवान् । इत्थं पिङ्गलरायतो मेरुत्रयोदश्या महिमा प्रवृत्तः । पूर्वं रत्नमया मेरवो ढौकिताः, पश्चात् कियत्कालं यावत् स्वर्णमयाः, ततः पश्चाद्रूप्यमयाः, अस्मिन् काले घृतमया मेरवः प्रवृत्ताः सन्ति, इत्थं मेरुत्रयोदश्या महिमानं श्रुत्वा भो भव्याः ! शुद्धभावेन विधिना एतद् व्रतं कर्तव्यं येन इह परत्र च सर्वप्रकारसुखसम्पत्तिः प्रादुर्भवेदिति ॥ संवद्व्योमरसाष्टेन्दु १८६० मिते फाल्गुनमासके । असितैकादशीतिथ्यां बीकानेराख्यसत्पुरे ॥१॥ व्याख्यानं प्राक्तनं वीक्ष्य निबद्धं लोकभाषया । अलेखि संस्कृतीकृत्य क्षमाकल्याणपाठकैः ॥२॥ संविग्नवाचनाचार्यपदस्थानं सुधीमताम् । श्रीयुक्तामृतधर्माणां शिष्यैरामोदतस्त्वदः ॥३॥ त्रिभिर्विशेषकम् ॥ ॥ इति मेस्त्रयोदशीव्याख्यानं सम्पूर्णम् ॥
: अभ्यास : १. अनन्तवीर्यनृपस्य का चिन्ता कथं बभूव ? २. गुणसुन्दर्याः विवाहसम्बन्धः केन सह सञ्जातः ? ३. अनन्तवीर्यनृपेण स्वपुत्रस्य विवाहः कथं विलम्बितः?
म्यास :

Page Navigation
1 ... 205 206 207 208 209 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240 241 242 243 244 245 246