Book Title: Sulabh Charitrani Part 01
Author(s): Vajrasenvijay
Publisher: Bhadrankar Prakashan

View full book text
Previous | Next

Page 206
________________ श्रीमेरुत्रयोदशीकथा • १८९ स्वामिनो निर्वाणकल्याणकमभूत्, तेन तद्दिनं श्रेष्ठमस्ति । तद्दिने चतुर्विधाहारत्यागेन उपावसं कृत्वा रत्नमयं मेरुपञ्चकं श्रीजिनाग्रे ढौकनीयम् मध्ये एको महामेरुः, चतुर्दिक्ष चत्वारो लघवः, तदग्रे चतुर्दिक्षु चत्वारो नन्द्यावर्ता: कर्तव्याः । दीपधूपादिपूर्वकं बहुविधाः पूजा कर्ताव्याः । एवं मासत्रयोदशकं मासत्रयोदशकं यावत्, अथवा वर्षत्रयोदशकं यावत् कर्तव्यम् । तथा 'ॐ ह्री श्रीऋषभदेवपारङ्गगताय २१ नमः ' एतत् पदं द्विसहस्रवारान् जनीयम्, एवं प्रतिमासं कुर्वतः सकलरोगक्षयो भवति, इह परतर् च सुखं सम्पद्यते । यदि त्रयोदश्यां पौषधं कुर्यात् तर्हि प्रागुक्तं कर्तव्यं सर्वं पारणकदिने कृत्वा गुरुं प्रति अतिथिसंविभागं विधाय पारणकं कुर्याद् । इत्थं गुरुवचः श्रुत्वाऽनन्तवीर्यो राजा व्रतमङ्गीकृत्य गुरुन् नत्वा स्वस्थानं ययौ । अथ पिङ्गलरायकुमारः प्रथममाघवदित्रयोदश्यां प्रथमं व्रतं कृतवान् तावता चरणाङ्करौ प्रादुर्भूतौ, एवं त्रयोदशमासान् यावत् कुर्वतः सुन्दररूपपाणिपादं प्रकटीभूतम् । राजाऽतीव हर्षं प्राप्तः, धर्मस्य महिमानं विलोक्य उल्लसितः सन् विशेषतो धर्मं कर्तुं प्रवृत्तः । ततः षोडशमासे कुमारेण गुणसुन्दरी परिणीता, अन्यासामपि बहूनां राजकन्यानां पाणिग्रहणं चक्रे । ततोऽनन्तवीर्येण राज्ञा कुमाराय राज्यं दत्त्वा गाङ्गिलमुनिपार्श्वे चारित्रं गृहीत्वा निरतिचारं तत् प्रतिपाल्य श्रीशत्रुञ्जयेऽनशनं कृत्वा शिवपदं प्राप्तम् । ततः पिङ्गलरायनृपः २२ सन्नीत्या प्रजां पालयन् पुनः त्रयोदशवर्षाणि यावद् मेरुत्रयोदशीमाराध्य प्रान्ते उद्यापनं चकार । तत्र त्रयोदशजिनगृहाणि कारयामास, त्रयोदश स्वर्णमयीः प्रतिमाः, त्रयोदश रूप्यमयीः, त्रयोदश रत्नमयीश्च निर्मापयामास २३ । त्रयोदशविधै रत्नैर्मेरुपञ्चकं निर्माप्य ढौकयामास । त्रयोदशवारान् श्रीसङ्गेन सह तीर्थयात्रां चकार । त्रयोदश साधर्मिकवात्सल्यान् कृतवान्, एवं बहुधा ज्ञानभक्तिमपि चकार ततः कियन्ति पूर्वाणि व्रतसल्यान् कृतान्, एवं बहुधा ज्ञानभक्तिमपि चकार । ततः कियन्ति पूर्वाणि व्रतसहितं राज्यं प्रपाल्य स्वकीयमहसेनकुमाराय राज्यं दत्त्वा श्रीसुव्रताचार्यसमीपे बहुभिरन्यपुरुषैः सह दीक्षां जग्राह । द्वादशाङ्गीमधीत्य चतुर्दशपूर्वधरः सञ्जात:

Loading...

Page Navigation
1 ... 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240 241 242 243 244 245 246