________________
श्रीमेरुत्रयोदशीकथा • १८९
स्वामिनो निर्वाणकल्याणकमभूत्, तेन तद्दिनं श्रेष्ठमस्ति । तद्दिने चतुर्विधाहारत्यागेन उपावसं कृत्वा रत्नमयं मेरुपञ्चकं श्रीजिनाग्रे ढौकनीयम् मध्ये एको महामेरुः, चतुर्दिक्ष चत्वारो लघवः, तदग्रे चतुर्दिक्षु चत्वारो नन्द्यावर्ता: कर्तव्याः । दीपधूपादिपूर्वकं बहुविधाः पूजा कर्ताव्याः ।
एवं मासत्रयोदशकं मासत्रयोदशकं यावत्, अथवा वर्षत्रयोदशकं यावत् कर्तव्यम् । तथा 'ॐ ह्री श्रीऋषभदेवपारङ्गगताय २१ नमः ' एतत् पदं द्विसहस्रवारान् जनीयम्, एवं प्रतिमासं कुर्वतः सकलरोगक्षयो भवति, इह परतर् च सुखं सम्पद्यते । यदि त्रयोदश्यां पौषधं कुर्यात् तर्हि प्रागुक्तं कर्तव्यं सर्वं पारणकदिने कृत्वा गुरुं प्रति अतिथिसंविभागं विधाय पारणकं कुर्याद् । इत्थं गुरुवचः श्रुत्वाऽनन्तवीर्यो राजा व्रतमङ्गीकृत्य गुरुन् नत्वा स्वस्थानं ययौ ।
अथ पिङ्गलरायकुमारः प्रथममाघवदित्रयोदश्यां प्रथमं व्रतं कृतवान् तावता चरणाङ्करौ प्रादुर्भूतौ, एवं त्रयोदशमासान् यावत् कुर्वतः सुन्दररूपपाणिपादं प्रकटीभूतम् । राजाऽतीव हर्षं प्राप्तः, धर्मस्य महिमानं विलोक्य उल्लसितः सन् विशेषतो धर्मं कर्तुं प्रवृत्तः । ततः षोडशमासे कुमारेण गुणसुन्दरी परिणीता, अन्यासामपि बहूनां राजकन्यानां पाणिग्रहणं चक्रे । ततोऽनन्तवीर्येण राज्ञा कुमाराय राज्यं दत्त्वा गाङ्गिलमुनिपार्श्वे चारित्रं गृहीत्वा निरतिचारं तत् प्रतिपाल्य श्रीशत्रुञ्जयेऽनशनं कृत्वा शिवपदं प्राप्तम् ।
ततः पिङ्गलरायनृपः २२ सन्नीत्या प्रजां पालयन् पुनः त्रयोदशवर्षाणि यावद् मेरुत्रयोदशीमाराध्य प्रान्ते उद्यापनं चकार । तत्र त्रयोदशजिनगृहाणि कारयामास, त्रयोदश स्वर्णमयीः प्रतिमाः, त्रयोदश रूप्यमयीः, त्रयोदश रत्नमयीश्च निर्मापयामास २३ । त्रयोदशविधै रत्नैर्मेरुपञ्चकं निर्माप्य ढौकयामास । त्रयोदशवारान् श्रीसङ्गेन सह तीर्थयात्रां चकार । त्रयोदश साधर्मिकवात्सल्यान् कृतवान्, एवं बहुधा ज्ञानभक्तिमपि चकार ततः कियन्ति पूर्वाणि व्रतसल्यान् कृतान्, एवं बहुधा ज्ञानभक्तिमपि चकार । ततः कियन्ति पूर्वाणि व्रतसहितं राज्यं प्रपाल्य स्वकीयमहसेनकुमाराय राज्यं दत्त्वा श्रीसुव्रताचार्यसमीपे बहुभिरन्यपुरुषैः सह दीक्षां जग्राह । द्वादशाङ्गीमधीत्य चतुर्दशपूर्वधरः सञ्जात: