________________
१८८ • सुलभ-चरित्राणि सूर्यकुण्डजलेन पुत्रं स्नापयामास । परं तज्जलं देवताऽधिष्ठतमस्ति स्वयंप्रभस्य च न तत्कर्माद्यापि क्षीणं तेन तज्जलं पादौ न स्पृशति । तद् दृष्ट्वा सर्वेऽपि सङ्घलोकाः स्विस्मिता जाताः, तदा सर्वैरपि मुनीश्वरः पृष्टः स्वामिन् किमत्र कारणम् ?, मुनिरूचे अनेन बहुभवेभ्यः प्राग् देवद्रव्यं भक्षितमास्ति, तथा एकस्या मृग्याश्चत्वारोऽपि पादाश्छिन्नाः तत्कर्म बहु क्षीणं किञ्चिदद्यापि अवशिष्टं१८ वर्तते, तेन तीर्थजलं न स्पृशति, तीव्रकर्मणां भुक्ति विना क्षयाभावात् । एतद् मुनिवचनं श्रुत्वा माता, पिता, पुत्रश्च त्रयोऽपि वैराग्यं प्राप्ताः । ततः श्रीऋषभदेवचरणान् अभिवन्द्य गृहमागत्य 'धर्मकरणोद्यता बभूवुः । इत्थं षोडशसहस्रवर्षाणि कुष्ठवणादिपीडामनुभूय तत्कर्मालोच्य कालं कृत्वा प्रथमदेवलोके देवत्वेनोत्पन्नः, ततश्च्युत्वा हे राजन् ! अनन्तवीर्योऽयं तव पुत्रः पिङ्गल रायनामा सञ्जातः । इत्थं गाङ्गिलमुनिः कुमारस्य प्राग्भवमुक्त्वा पुनरुवाच
मद्यपानाद् यथा जीवो, न जानाति हिताऽहिते । धर्माऽधौ न जानाति, तथा मिथ्यात्वमोहितः ॥१॥ मिथ्यात्वेनालीढचित्ता ९ नितान्तं, तत्त्वातत्त्वं जानते नैव जीवाः । किं जात्यन्धाः कुत्रचिद्वस्तुजाते, रम्यारम्यव्यक्तिमासादयेयुः ? ॥२॥ अभव्याश्रितमिथ्यात्वे-ऽनाद्यनन्ता स्थितिर्भवेद् । सा भव्याश्रितमिथ्यात्वे-ऽनादिसान्ता पुनर्मता ॥३॥
इदृग्-मिथ्यात्वोदयाद् जीवाः कर्माणि बघ्नन्ति, त्वत्पुत्रेणापीत्थमेव दुष्कर्मोपार्जितं तेन पङ्गुर्जात । एतद् मुनिवचः श्रुत्वा राजा उवाच - हे स्वामिन् ! एतत् कर्म केन पुण्येन नश्यति ? मुनिना उक्तम् हे राजन् ! तृतीयारके प्रान्ते सार्धाष्टमासयुक्तवर्षत्रये२० शेषे सति माधवदित्रयोदश्यां श्रीऋषभदेव