________________
श्रीमेरुत्रयोदशीकथा • १८७
ततोऽपि विरमति स्म। एकदा १४ प्रभोश्छत्राद्याभरणानि गृहीत्वा क्वचिद् अनाचारं सेवितवान्, तदा श्रेष्ठिना तत्स्वरूपं ज्ञात्वा गृहाद् बहिर्निष्कासितः ततो वनमध्ये भ्रमन् आखेटकसङ्गेन बहून् मृग- शशकादीन् जन्तून् विनाशयन्नुदरपूर्तिं चकार ।
अथ तत्रैव वने तापसाश्रमो विद्यते तत्र बहवस्तापसास्तपस्यां कुर्वन्ति मृगा अपि तत्राऽऽगत्य उपविशन्ति । एकदा एका सगर्भा मृगी तत्राऽऽगच्छन्ती तेन सामन्तसिंहेन तीक्ष्णशस्त्रेण पादेषु प्रहृता तस्याश्चत्वारोऽपि पादाः छिन्नाः, सा अधः पतिता तापसैर्दृष्टा । ततस्तैः सद्यस्तत्राऽऽगत्य धर्मः श्रावितः, सा मृत्वा सद्गतिं१५ प्राप्ता । ततस्तापसाः सामन्तसिंह प्रत्येवमुक्तवन्तः रे दुष्ट ! यथा त्वयाऽस्माकं मृग्याः पादाश्छिन्नास्तथा त्वमपि परत्र पङ्गुत्वं प्राप्नुयाः । इत्थं शापं दत्त्वा ते स्वाश्रमं जग्मुः ॥
सामन्तसिंहोऽपि तापसान् क्रुद्धान् दृष्ट्वा भीतः सन् नंष्ट्वा वनं गतः, दुष्कर्मयोगात् सम्मुखं सिंहो मिलितः, सद्यस्तेन सिंहेन हतः, स मृत्वा नरकं गतः । ततश्च्युत्वाऽसंख्येयान् तिर्यग्नरकादिभवान् कृत्वाऽकामनिर्जरया बहूनि कर्माणि क्षपयित्वा महाविदेहे कुसुमपुरनगरे विशालकीर्तिनृपस्य गृहेशिवानामदास्याः पुत्रत्वेनोत्पन्नः । तया वज्र इति स्थापितं नाम, क्रमेण तरुणो जातः । नृपसेवा करोति स्म परं प्राक्कृतकर्मोदयात् तच्छरीरे गलत्कृष्ठरोग उत्पन्नः। हस्तौ, पादौ च गलित्वा पतितौ पङ्गर्जातः ।
अत मरणसमये शिवादास्या नमस्कारमन्त्रः श्रावितः, ततः समाधिना मृत्वा वन्यन्तरो जातः ततश्च्युत्वा जम्बूद्वीपे भरतक्षेत्रे सौहार्दपुरनगरे सूरदासश्रेष्ठिगृहे वसन्ततिलकाभार्यायाः स्वयंप्रभो नाम पुत्रो जातः । स च गुणवान्, विवेकवान्, परं चरणे व्रणरोगयुक्त १६ एवोत्पन्नस्तेन चलितुं न शशाक । क्रमेण अष्टवर्षवया १७ अभूत्, एकपुत्रत्वात् पितरौ तद्दुःखदुःखितावभूताम् । तस्मिन् समये श्रीशत्रुञ्जयतीर्थयात्रार्थं संघोऽगमद्, तदा तत् श्रुत्वा श्रेष्ठी अपि सरोगपुत्रसहितः सङ्घमध्ये चचाल ।
1
क्रमेण सिद्धक्षेत्रे सङ्घः समागतः, ततो विधिवा गिरिमारुह्य श्री ऋषभ - देवभक्ति चकार तदा सूरदास श्रेष्ठी अपि सभार्यः पुत्रमादाय उपरि गत्वा