________________
१८६ • सुलभ-चरित्राणि जे बम्भचेरभट्टा, पाए पाडंति बम्भयारीणं । ते हुति १°टुंटमुंटा, बोही पुण दुलहा तेसिं ॥४॥
तथा धर्मस्य मूलं दया, पापस्य मूलं हिंसा, एको हिंसां करोति, अन्यः कारयति अपरोऽनुमन्यते एते त्रयोऽपि ११सदृशपापभाजः । पुनर्यो हिंसां कुर्वन् मनसि त्रासं न प्राप्नोति तस्य हृदये दया नास्ति, यो जीवो निर्दयः सन् बहून् एकेन्द्रियान् विनाशयति स परभवे वातपित्तादिरोगभाग् भवति । यः पुनर्दीन्द्रियान् विनाशयति स परत्र मूकः, मुखरोगी, दुर्गन्धनिश्वासश्च भवति, यश्च त्रीन्द्रियाणां विनाशकः स नासिकारोगी भवेत् । चतुरिन्द्रियनविनाशकस्तु अक्ष्णा काणः अन्धो वा, क्लिन्ननेत्रो वा भवेत् । यस्तु पञ्चेन्द्रियविनाशकः स परत्र बधिरो भवति, यः पुनः पञ्चप्रकारानपि जीवान् विनाशयति स भवान्तरे पञ्चापीन्द्रियाणि पटूनि न प्राप्नोति, तस्माद् भो भव्याः ! हिंसाऽनृतादिकं सर्वथा त्याज्यमित्यादिधर्मोपदेशं श्रुत्वा राजा गुरुं पप्रच्छ-स्वामिन् ! मत्पुत्रः केन कर्मणा पङ्गुर्जातः ? तदा गाङ्गिलमुनिरुवाच अस्य प्राग्भावं श्रृणु।।
अस्मिन् जम्बूद्वीपे ऐरवतक्षेत्रे अचलपुरनाम्नि नगरे महेन्द्रध्वजो नाम राजा, उमया पटराज्ञी तयोः सामन्तसिंहो नाम पुत्रोऽभूत् । स च लेखनशालायां पठनाय गच्छन् १२द्यूतकृत्सङ्गाद् द्यूतं शिक्षितवान्, क्रमेण सप्तव्यसनसेवनतत्परोऽभूत् । राज्ञा बहुधा निषिद्धोऽपि यदा व्यसन सप्तकं न तत्याज तदा अयोग्यं ज्ञात्वा स्वदेशाद् बहिनिष्कासितवान् । ततोऽपि व्यसनमत्यजन् देशाटनं कुर्वन् सुरपुरनगरे समागतः, तत्र चम्पक श्रेष्ठिना सुन्दराकारं विलोक्य उत्तमपुरुषोऽयमिति ज्ञात्वा सुकुमारोऽयम्, अस्मात् कार्यान्तरं न भविष्यतीति च विचिन्त्य स्वगृहपार्श्ववर्तिजिनगृहरक्षार्थं स सामन्तसिंहः स्वगृहे स्थापितः । अथ स दुष्टात्मा जिनाग्रे, ढौकितानि १३तन्दुलपूगीफलादीनि प्रच्छन्नं गृहीत्वा द्यूतकीडार्थं ययौ । कियद्भिर्दिनैः श्रेष्ठिना तद् ज्ञात्वा तस्मै उक्तम्-हे भद्र ! यः पुमान् देवद्रव्यादिकं भुङ्क्ते सोऽनन्तकालं संसारपरिभ्रमणं करोति, तस्मात् त्वया अतः परमेतत् कार्यं न कर्तव्यम् ।
इत्थं बहुधोपदेशो दत्तस्तथापि स दुष्टो मिथ्यात्वज्ञानतीव्रकर्मोदयाद् न