________________
श्रीमेरुत्रयोदशीकथा • १८५ उत्थाय स्वमन्दिरे एकान्तदेशे गत्वा राज्याः प्रधानस्य चाग्रे इत्थमुवाच-अथ किं कर्तव्यम् ? पुत्रस्तु पङ्गर्वर्तते एतस्य कथं भविष्यति ? पङ्गवे कः स्वकन्यां प्रदास्यति?
तदा प्रधानमन्त्री किञ्चिद् विचार्य तान् सेवकान् आहूय इत्युवाचसाम्प्रतमिह कुमारो नास्ति ७ तन्मातुलगृहे वर्तते । मातुलगृहं तु इतो द्विशतयोजनेषु मुहनीपत्तने समस्ति तेन साम्प्रतं लग्नं न भवेत्, पश्चाद् ज्ञास्यते । एतत् श्रुत्वा सेवकाः प्रोचुः हे स्वामिन् ! पन्था दूरे वर्तते, लग्नं निर्धार्य देयं स्वयमपि लग्नोपरि समागन्तव्यम् । एतत् सेवकवचनं श्रुत्वा मासषोडशकानन्तरं लग्नं भविष्यति इति निर्धारितम् । ततो लग्नं गृहीत्वा सेवका मलयदेशं गताः ।
अथ राजा अनन्तवीर्यश्चिन्तातुरः सन्नुवाच-अथाऽत्र क उपायः कर्तव्यः ? षोडशमासास्तु सत्वरमेव यास्यन्ति । तदा नृप-राज्ञीप्रधानैर्बह्वी चिन्ता कृत्वा परं कोऽप्युपायो न लब्ध । अस्मिन्नवसरे नगर्युद्याने “साधुपञ्चशतीपरिवृतश्चतुर्ज्ञानधरो गाङ्गिलनामा साधुः समवसृतः, वनपालकेन प्रतिपत्ति कृत्वा नगरमध्ये गत्वाऽनन्तवीर्यराजाय वर्धापनिका दत्ता राजा तन्मुखात् साध्वागमनं श्रुत्वा तं सन्तोष्य हस्त्यश्वादिबहुऋद्धिसमेतो वन्दनार्थं निःसृतः । क्रमेण तत्र गत्वा विधिना मुनीन् अभिवन्द्याने उपविष्टः, पर्षदः मीलिता, मुनिरुपदेशं ददौ । स च इत्थम्जीवदयाइ रमिज्जइ, इन्दियवग्गो दमिज्जइ सयावि । सच्चं चेव वदिज्जइ, धम्मस्स रहस्सं इणं चेव ॥१॥ जयणा उ धम्मजणणी, जयणा धम्मस्स पालणी चेव । तह वुड्डिकरी जयणा, एगंतसुहावहा जयणा ॥२॥ आरंभे नत्थि दया, महिलासंगेण नासए बंभं । संकाए सम्मत्तं नासई, पवज्जा अस्थगहणेण ॥३॥