________________
१८४ • सुलभ-चरित्राणि कुमारस्य पिङ्गलराय इति नाम कृतवान्, ततस्तमन्तःपुरे एव ररक्षतुः बहिर्न प्रकटं चक्रतुः । यदा पुनः लोकाः पप्रच्छुस्तदा एवमूचतुः कुमारस्य रूपमत्यद्भुतं वर्तते, मा कदाचिद् दृष्टिदोषो भवेद् इति न 'प्रादुष्क्रियते । तदा सर्वस्मिन्नपि नगरे एषा प्रवृत्तिः प्रादुर्भूता । यदुत पिङ्गलरायकुमारतुल्यः पृथिव्यामपरः कोऽपि रूपसौन्दर्यवान् नास्तीति।
अथैवं क्रमेण कुमारो वृद्धि प्राप्तः । अस्मिन्नवसरे अयोध्यानगरीत: सपादशत (१२५) योजनेषु मलयनामा देशोऽस्ति, तत्र ब्रह्मपुरं नाम नगरम्, तत्र च इक्ष्वाकुवंश्य: काश्यपगोत्रीयः शतरथो नाम राजा तस्य च इन्दुमती नाम्नी पट्टराज्ञी । तत्कुक्षिसम्भवा गुणसुन्दरी नाम पुत्री, सा चातिशयरूपलावण्यसौभाग्यादिगुणयुक्ताऽभूत् । तस्य राज्ञः पुत्रो नास्ति सैवैका पुत्री आसीद् । अतस्तेन मातापित्रोरतिवल्लभा आसीद् । अत पुत्रीं वरयोग्यां ज्ञात्वा तद्योग्यवरालाभाच्च राजा तद्विविवाहचिन्तातुरो बभूव ।
तस्मिन्वसरे तन्नगरवासिव्यापारिणः शकटेषु विविधानि क्रयाणकानि भृत्वा देशान्तरं चालितास्तदा राज्ञा तेभ्य उक्तम्-देशान्तरभ्रमद्भिर्भवद्भिगुणसुन्दरीयोग्यवरप्राप्तौ सत्यां विवाहसम्बन्धः कार्यः, इति नृपवचनं श्रुत्वा तथेति प्रतिपद्य ते चलिताः क्रमेण बहूनि नगराणि विलोकयन्तोऽयोध्यां नगरी प्राप्ताः, तत्र च क्रयाणकानि सर्वाण्यपि विक्रीतानि भूयान् लाभः सञ्जातः, अपराणि तत्रत्यानि क्रयाणकानि सङ्ग्रहीतानि । यदा ते चलनार्थमुद्यता जातास्तदा स्वनृपवचनं संस्मृत्य तन्नगरवासिलोकानां मुखात् कुमारस्याद्भुतं रूपं श्रुत्वा नृपसमीपं गत्वा कुमारेण सह गुणसुन्दर्या विवाहसम्बन्धं चक्रुः, राज्ञाऽपि शुल्क(कर)मोचनादिना तेषां बह्वादरश्चके ततस्ते हर्षिताः सन्तः स्वदेशं प्रति चेलुः, क्रमेण स्वनगरं गत्वा राज्ञोऽग्रे सर्वं वृत्तान्तं कथयामासुः ।
राजाऽपि कुमारस्याद्भुतरूपसौभाग्यादिगुणान् श्रुत्वा सन्तोषं प्राप्तः अथ यदा कन्या वरयोग्या जाता तदा कुमारस्य आकरणार्थं राज्ञा स्वसेवकाः प्रेषिताः तेऽपि अयोध्यां गत्वा अनन्तवीर्यनृपं प्रोचुः-हे महाराज ! विवाहार्थं कुमारः सत्वरं प्रेषणीयः, इति श्रुत्वा राजा उद्विग्नचित्तः सञ्जातः, ततः सद्यः