________________
[२१] ॥श्रीमेरुत्रयोदशीकथा ॥ मारुदेवं जिनं नत्वा, स्मृत्वा सद्गुरुभारतीम् । मेरुत्रयोदशोघस्त्र-व्याख्यानं लिख्यते मया ॥१॥
इहाष्टमहाप्रातिहार्याविराजितेन ३जगद्गुरुणा श्रीवर्धमानस्वामिना श्रीगौतमादीनामग्रे यथा माघवदित्रयोदश्या माहात्म्यमुक्तं तथा परम्परयाऽऽयातमस्माभिरुच्यते, श्रीऋषभदेवा-ऽजितनाथयोरन्तरे पञ्चाशल्लक्षकोटिसागरोपमाणि व्यतिक्रान्तानि, तन्मध्ये अयोध्यायां नगर्याम् इक्ष्वाकुवंश्यः काश्यपगोत्रीयोऽनन्तवीर्यो नाम राजा बभूव, स च बहुलहस्त्यश्वरथपदात्यादिसेनानायकः । तस्य च राज्ञः पञ्चशतानि राज्य आसन्, तन्मध्ये प्रियमती नाम पट्टराज्ञी बभूव, धनञ्जयो नाम चतुर्बुद्धिनिधिर्महामात्यश्च आसीत् । सुखेन राज्यं पालयतो राज्ञ एकदा मनसि महाचिन्ता समुत्पन्ना यदुत्तमो ममैकोऽपि पुत्रो नास्ति, क एतद्राज्यस्य भोक्ता भविष्यति ? पुत्रं विना गृहं शून्यप्रायमिति।
ततो राज्ञा अनेके उपायाः कृताः परं पुत्रोत्पत्तिर्न जाता । तस्मिन्नवसरे एकदा एक: कोणकनामा साधुराहारार्थं राज्ञो गृहे समागतः, तदा नृपराज्यौ उत्थाय विधिना वन्दित्वा शुद्धाहारेण प्रतिलाभ्य करद्वयं संयोज्य मुनि पप्रच्छतुः स्वामिन् ! अस्माकं पुत्रो नास्ति स कदापि भविष्यति न वा ? मुनिरुवाचज्योतिष्कनिमित्तादिकं मुनिर्न भाषते तदा नृपराज्ञीभ्यां पुनःपुनः प्रार्थनायां कृतायां मनसि दयां धृत्वा मुनिना उक्तम् हे राजन् ! तव पुत्रस्तु भावी परं पङ्गर्भविष्यति एतदुक्त्वा मुनिर्गतः, तदा भूप-राज्ञीभ्यां चिन्तितम् अस्माकं पङ्गुरपि पुत्रस्तु भावी।
क्रमेण राज्ञी सगर्भा जाता, पूर्णे काले पङ्गं पुत्रं प्रासूत । राजा पुत्रजन्म श्रुत्वा हर्षितः सन् महोत्सवं चकार, द्वादशे दिवसे सर्वमपि कुटुम्बं भोजायित्वा