________________
१७८ • सुलभ-चरित्राणि विद्यादेव्याः समाराधनं च दत्तम्, वैताढ्यपर्वते दक्षिणश्रेण्यां रथनूपुरचक्रवालप्रमुखाणि पञ्चाशन्नगराणि, उत्तरश्रेण्यां च गगनवल्लभप्रमुखाणि षष्टिनगराणि वासयित्वा प्रदत्तानि, तत्र विद्याबलेन लोकान् वासयित्वा यावन्ति नगराणि तावतो देशान् संस्थाप्य तौ पृथक्पृथक् नमिविनमी तत्र राज्यं पालयामासतुः । तौ चिरकालं राज्यसुखमनुभूय प्रान्ते सर्वसङ्गं परित्यज्य दीक्षां गृहीत्वा श्रीविमलाचले समागत्य श्रीदेवाधिदेवं युगादिदेवं भावेनाऽभिनम्य तत्रैव तीर्थे मुक्ति प्रापतुः, इति नमिविनमिसम्बन्धः
अथ श्रीऋषभदेवस्य प्रथमगणधरः पुण्डरीकनामाऽत्रैव मुक्ति प्राप्तस्तत्सम्बन्धश्चायम् ।
श्री आदिनाथपुत्रो भरतः, तस्य पुत्रः पुण्डरीक: श्रीप्रभोः पार्वे धर्म श्रुत्वा प्रतिबुद्धः सन् दीक्षां गृहीत्वा प्रथमगणधरो जातः, पञ्चकोटिसाधुपरिवृतः गणधरो ग्रामानुग्रामं विहरन् सौराष्ट्रदेशे समागतः, तदागमनं श्रुत्वाऽनेकभूपमण्डलीकसामन्तश्रेष्ठि-नरनारी-गणा वन्दनार्थमाययुः, गुरुरपि यथायोग्यं धर्मदेशनां ददाति स्म । तस्मिन्नवसरे एका सबाष्पजला सशोका चिन्तासागरसम्प्रविष्टा दीना महिला समागता, तया सार्धं विधवा दौर्भाग्ययुक्ता एका कन्याऽपि समागता । श्रीपुण्डरीकगणधरं नमस्कृत्यावसरं प्राप्य कन्यया सह सा स्त्री इति पप्रच्छ हे भगवन् ! अनया कन्यया पूर्वभवे किं पापं कृतं येन विवाहसमये करमोचनवेलायामेवास्याः पतिर्मरणं प्राप? इति प्रश्ने कृते सति गणधरः प्राह-हे भद्रे ! अशुभकर्मणोऽशुभमेव फलम् ।।
____ तथाहि-जन्बूद्विपे पूर्वमहाविदेहे मनोरमं विश्वविख्यातं कैलासपर्वताकारतुङ्गप्राकारवेष्टितं नानादेशोद्भवजनाकुलं विशालशालगृहैर्मण्डितं चन्द्रकान्तनामकं नगरं बभूव । तत्र श्रियो धाम १°सकलकलागुणगणग्रामो जगति प्रसिद्धः समरसिंहो नाम महीपतिरभूद् । तस्य शीलालङ्कारधारिणी धारिणीनाम्नी वल्लभा बभूव । तत्र नगरे महाधनाढ्यः परमश्राद्धो जिनभक्तिरतोऽनेकगुणसागरो धनावहनामा श्रेष्ठी बभूव । तस्य कर्मयोगाद् द्वे भार्ये बभूवतुः, एका कनकश्रीद्वितीया मित्रश्रीस्ताभ्यां भार्याभ्यां सह स श्रेष्ठी सुखेन