________________
- [२०]
॥ श्रीचैत्रीपूर्णिका कथा ॥ तीर्थराजं नमस्कृत्य, श्रीसिद्धाचलसञ्ज्ञकम् ।
चैत्रशुक्लपूर्णिमाया, व्याख्यानं क्रियते मया ॥१॥ सिज्झोविज्झायरचक्की,नमिविनमिमुणी, पुण्डरीओमुणिन्दो, वाली पुज्जुम्नसंबो, भरहसुकमुणी सेलगो पंथगो य । रामो कोडीयपंच, द्रविडनरवइ, नारओ पण्डुपुत्ता, मुत्ता एवं अणेगे, विमलगिरिमहं, तित्थमेयं नमामि ॥२॥
व्याख्या-अहमेतत् तीर्थं नमामि यत्रानेके प्राणिनः सिद्धा बभुवुः, ते के ? तानाह-यत्र विमलाचले विद्याधरादिचक्रवर्तिनः सिद्धाः-मुक्ति प्राप्ताः, पुनर्युगादिदेवस्य पोषकपुत्रौ नमिविनमिनामानौ मुक्ति गतौ, तत्सम्बन्धोऽयम्अयोध्यायां नगर्यां भगवान् ऋषभदेवः स्वज्येष्ठपुत्राय भरताय राज्यं दत्त्वाऽन्येषामपि यथायोग्यं देशं विभज्य स्वयं दीक्षां गृहीतवान्, तदा नमिविनमिनामानौ कस्मैचित् कार्याय कुत्रचित् प्रदेशे गतावभूताम्, भगवता तु,
राज्यविभागावसरे तौ विस्मृतौ दीक्षाग्रहणानन्तरमंयोध्यायां समागतौ भरतं पप्रच्छतुः-ऋषभदेवोऽस्माकं पिता क्वास्ति ? भरतेनोक्तं स्वामिना दीक्षा गृहीता, युवाभ्यां मम सेवा कर्तव्या, अहं युवाभ्यां देशग्रासं दास्यामि, तदा तौ भरतमपमान्य राज्यार्थं स्वामिसमीपे आगत्य विहारं कुर्वतो भगवतोऽग्रे कण्टकादिकं मार्गाद् निवारयन्तौ कायोत्सर्गे स्थितस्य भगवतो दंशमशकादीन् उड्डापयन्तौ प्रातर्वन्दनापूर्वकं, स्वामिन् ! राज्यप्रदो भव इत्युक्तवन्तौ नित्यं तिष्ठतः
स्म ।
___एकदा वन्दनार्थमागतेन धरणेन्द्रेण तयोरुपरि महतीं कृपां विधाय भगवद्रूपं कृत्वा ताभ्यामष्टचत्वारिंशत्सहस्रपठितसिद्धाविद्या: प्रदत्ताः, षोडश