________________
श्रीचैत्रीपूर्णिका कथा • १७९ कालं गमयति स्म।
अथैकदा ११मदनपरवशात् कनकश्रीमित्रश्रियो वारकं समुल्लङ्घ्य भर्तुः समीपे समागता, तदा भर्ना प्रोक्तम्-अद्य वारकं तव नास्ति कथं त्वया मर्यादा लङ्घिता ? सा कामविहवा भर्तारं प्रत्युवाच केयं मर्यादा ? तदा भ; प्रोक्तम् कुलोद्भवानां मर्यादोल्लङ्घनं न युक्तं समुद्रोऽपि मर्यादां न मुञ्चति सत्पुरुषः स्वमर्यादया न चलति।
___ ततः सा सन्तोषरहिता कलुषवदना मित्रश्रियं प्रति द्वेषमुद्वहन्ती स्वगृहे समागता, सपत्न्या सह पतिसम्बन्धवियोगमिच्छंन्ती कनक श्रीः विषयप्रमादव्याकुला सती मन्त्रतन्त्रयन्त्रोपायकार्मणादिसामग्री विधाय तस्याः शरीरं भूतप्रेत-शाकिनी-डाकिनीप्रवेशं कारितवती, साऽपि कर्मयोगात् पारवश्यं१२ प्राप्ता।
___ अथ कनकश्रीः सपत्नीशरीरं कुचेष्टितं ज्ञात्वा जहर्ष, पुनः स्ववशीकरणबलेन भर्तारं स्ववशीचक्रे भर्ताऽपि लघुपत्नी दृष्ट्वा पूर्वकर्मफलं विचिन्त्य तत्याज, तदा कनकश्रीहर्षिता । धनवाहश्रेष्ठी कनकश्रिया सह विषयसुखं भुञ्जानः सन् कालं निनाय । कियति काले गते सति सा कनकश्रीमंता त्वत्पुत्री जाता, सपत्नीपतिवियोगकरणेन विषकन्याकर्मविपाकं १३पतिविरहपीडापीडितं भोगसुखरहितं कर्मोपार्जितं, तेन कारणेन तव पुत्री महादुःखेन दुःखिताऽस्ति, कर्मणां विचित्रा गतिरस्ति।
तदा तज्जननी प्राह-हे गुरो ! इयं पतिविरहेण पीडिता वृक्षशाखाया पाशं बद्ध्वा मरणाय समुद्यता, तावद् मया एतत्स्वरूपं दृष्ट्वा पाशं छित्त्वा भवत्समीपे समानीता भवद्भिर्दीक्षा प्रदीयताम्, तदा गणधरः प्राह-हे भद्रे ! एषा तव पुत्री दीक्षायोग्या नास्ति, १४नितरां चञ्चलस्वभावा बाला वर्तते इति गुरुवचनं श्रुत्वा तन्माता प्राह-अस्या योग्यं धर्मकृत्यं कथ्यतां येन दुष्कर्मविपाको १५दूरीभवेद् । गुरुरपि ज्ञानबलेन तस्या योग्यं व्रतं कथयति स्म हे भद्रे ! चैत्रशुक्लपूर्णिमाऽऽराधनं कुरु, तस्या आराधनेऽस्याः पूर्वकर्मविनाशो भविष्यति, इति श्रुत्वा तस्याः कन्याया अपि गुरुज्ञानयोगाद् रुचिः समुत्पन्ना,