________________
श्रीजम्बूकुमारचरित्रम् • ११९ यद्यहं विषयासक्तो भवामि तदा ललिताङ्गवद्दुःखभाजनं स्याम् अतो न रते रतिः कर्तुं युक्ता।
॥ इति ललिताङ्गदृष्टान्तः ॥ एवं कुमारेण शिक्षा दत्ता, एवं परस्परमुत्तरप्रत्युत्तरवाक्यै रजनी निर्जगाम । पश्चात्स्त्रीभिरुक्तम्, स्वामिन् ! दुष्करं व्रतपालनं । ६५अनुपमोऽयं वैराग्यरसः, यैरयं सम्यगाराधितस्तैर्मुक्तिपदमलङ्कृतमिति स्त्रीभिरपि जम्बूवचः प्रमाणीकृतम् ! तस्मिन्नवसरे प्रभवेणोक्तं, मदीयं महद्भाग्यं यच्चौरेणापि मया वैराग्यवार्ता श्रुता । विषयमोऽयं विषयाभिलाषः, दुस्त्यजोऽयं विषयरागः, धन्यस्त्वं येन तारुण्येऽपीन्द्रियाणि वशीकृतानि । जम्बूकुमारेणापि तदुद्धाराय बहवो धर्मोपदेशा दत्ताः, वैराग्यवासितेन प्रभवचौरेणोक्तम्, त्वं महान् ममोपकारकर्ता, अहमपि त्वया सार्द्ध व्रतं ग्रहीष्यामि । प्रातःकालो जातः । श्रेणिकेन राज्ञा तत् श्रुतम्, श्रेणिकेनापि बहवो रक्षणोपायाः कृताः, परन्तु जम्बूकुमारेण मनसि न धारिताः पश्चात्प्रातः समहोत्सवं सप्तक्षेत्र्यां वित्तं वितीर्य कृतश्रेणिकनृपोत्सवः ६६प्रभवादिपञ्चशतीपरिकलितो निजजनकजननीसहितः प्रमदाभिरनुश्रितो निजश्वशुरश्वश्रूसंयुतः श्रीसुधर्मास्वामिनः समीपे चारित्रं जग्राह । अनुक्रमेणाधीतद्वादशाङ्गीकश्चतुर्दशपूर्वधारी६७ चतुर्ज्ञानसहितः स श्रीसुधर्मस्वामिपट्टभूषणं जातो, घातिकर्मक्षयात्केवलमवाप्य मुक्तिकामिनीकण्ठालङ्कार हारः सञ्जातः। धन्योऽयं सुरराजराजमहितः श्रीजम्बूनामा मुनिस्तारुण्येऽपि पवित्ररूपकलितो यो निर्जिगाय स्मरम् । त्यक्त्वा मोहनिबन्धनं निजवधूसम्बन्धमत्यादरान्मुक्तिस्त्रीवरसङ्गमोद्भवसुखं लेभे मुदा शाश्वतम् ॥१॥
एवं जम्बूसदृशः क्षणभरं विषयसुखं त्यक्त्वा शाश्वत एव सुखे रमन्ते, तत्प्रत्ययेन प्रभवसदृशा अपि सुलभबोधिनः संसाराम्बुधिपारगा भवन्तीति।