________________
११८ • सुलभ चरित्राणि
पट्टराज्ञी, साऽतीवरूपवती यौवनादिगुणाकीर्णा मोहनृपराजधानी राज्ञोऽतीव - वल्लभा, परन्तु सा व्यभिचारिणी, एकदा सा रूपवती गवाक्षस्थिता नगर कौतुकं विलोकयति । तस्मिन्नवसरे ललिताङ्गनामा कश्चिद्युवाऽतीवरूपपात्रं मार्गे गच्छंस्तया दृष्टः, तद्रुपदर्शनाज्जातमोहोदयाऽतीवकामातुरा रूपवती चेटीं प्रति कथयति भो एनं युवानमानय, तया तस्मै निवेदितं मदीया स्वामिनी त्वामाकारयति, अतः समागच्छ मया सार्द्धं मत्स्वामिनीगेहम्, सोऽपि विषयभिक्षापरिभ्रमणशीलो निःशीलस्तद्गेहं जगाम । साऽप्यागतं ललिताङ्गं दृष्ट्वा हावभाविलासविभ्रमान् विस्तारयन्ती, अङ्गमोटनं कुर्वन्ती, दोर्मूलं दर्शयन्ती, नाभिमण्डलं विवसनं ९ कुर्वन्ती तदीयं मनो वशीचकार । यदुक्तम्स्त्री कान्तं वीक्ष्य नाभि प्रकटयति मुहुर्विक्षिपन्ती कटाक्षान्, दोर्मूलं दर्शयन्ती रचयति ६० कुसुमापीडमुत्क्षिप्तपाणिः । रोमाञ्चस्वेदजृम्भाः श्रयति कुचतटस्त्रंसि वस्त्रं विधत्ते, सोल्लासं वक्ति नीवीं शिथिलयति दशत्योष्ठमङ्गं भनक्ति ॥१॥
तदीयमेतत्स्वरूपं दृष्ट्वा स्मरोल्लम्भिताङ्गो ललिताङ्गनामा तया सार्द्धं भोगान् बुभुजे, ६१विषयलुप्तचेतनो निःशङ्क, तां भुक्तवान् । एतस्मिन्नवसरे तदीयो भर्त्ता राजा समायातः, तदा ६२ द्वारस्थितचेटीमुखाद्राजागमनं श्रुत्वा साऽतीवभयविह्वलाङ्गी तं नरमशुचिकूपे स्थापयामास, राझि आगते, राज्ञा सार्द्धं च हास्यविनोदादिवार्तां चकार । सोऽपि ललिताङ्गोऽशुचिकूपे स्थितो महतीं ६३ क्षुत्तृषादिबाधां सहते, परवशो जातः, मनसि चिन्तयति अहो ! विषयलाम्पट्यम् ! धिग्मामकृत्यकारिणम् ! एवं तत्र वसतो बहूनि दिनानि जातानि । सा राज्ञ्यपि तं विसस्मार, धिक्स्त्रीणां कृत्रिमं प्रेम, ललिताङ्गस्तत्र तिष्ठन् मृततुल्यो जातः, वर्षाकाले जलपूरिताऽशूचिकूपजलप्रवाहेण वाहितो निर्गतो मिलितः स्वजनानाम्, निवेदितं सर्वमपि स्वरूपम्, विषयाभिलाषविमुखो जातः, कियद्भिर्दिनैर्गृहे ६४स्वस्थीभूतः पुनरेकदा राज्ञ्या दृष्ट उपलक्षित आकारितश्च, ललिताङ्गेनोक्तम् न पुनरेवं करिष्यामि, विषयासक्तेन महती मया वेदनाऽनुभूतेति । ततः परं विषयविरक्तो भूत्वा स सुखी जातः, अतो भो वनिते !