________________
श्रीजम्बूकुमारचरित्रम् • ११७
॥ इति ब्राह्मणपुत्री दृष्टान्तः ।। इति जयन्तश्रीवाक्यं श्रुत्वा जम्बूकुमारः प्राह
भो जयन्तश्रि ! मोहातुरमनाः प्राणी अधर्मे धर्मबुद्धि निधाय विषयादिकं स्थापयन् कर्माणि बध्नाति, अहो ! दुरन्ता विषयाः, विषेभ्योऽप्यधिका विषया इति सत्यमेव । विषया मृतानपि मारयन्ति । यदुक्तम् -
भिक्षाशनं तदपि नीरसमेकवारम्, शय्या च भूः परिजनो निजदेहमात्रम् । वस्त्र च जीर्णशतखण्डमयी च कन्था, हा हा तथापि विषया न परित्यजन्ति ॥१॥
अतो भो वनिते ! यदि जन्मजरामरणवियोगशोकादयः शत्रवो मत्समीपं नायान्ति तदाहं भवत्सम्बन्धिनो भोगानभिलषामि । यथा मां बलात्कारेण गृहे स्थापयथ, तथा रोगादिभ्योऽपि रक्षणे किं शक्तिरस्ति ? तदा स्त्रीभिरुक्तम्, ५७स्वामिन्नेतादृशः कः समर्थो, यः संसारस्थिति वारयति, तदा जम्बूकुमारेणोक्तमहमशुचिभृतायां मोहकुण्डिकायां भवदीयायां तनौ न रति प्राप्नोमि, यतोऽनन्तपापराशिभवः स्त्रीणां भवनिबन्धः, यदुक्तम्
अणंता पावरासीओ, जया उदयमागया, तया इत्थित्तणं पत्तं, सम्मं जाणाहि गोयमा ॥१॥ पनरप्यक्तम-दर्शने हरते चित्तं. स्पर्शने हरते बलम । संगमे हरते वीर्यं नारी प्रत्यक्षराक्षसी ॥१॥ इति ।
अतो नाहं ललिताङ्गवन्मोहनिमग्नोऽशुचिकूपे भवकूपे निवसामि, तदा स्त्रीभिरुक्तम्, स्वामिन् ! कोऽयं ललिताङ्गो यः स्वामिोपनयं५८ नीतः, जम्बूकुमारः कथयति ।
वसन्तपुरे नगरे शतप्रभो राजा राज्यं करोति, तद्गृहे रूपवती नाम्नी