________________
११६ • सुलभ-चरित्राणि भरतक्षेत्रे लक्ष्मीपुरनगरे नयसारनामा राजा राज्यं करोति, स राजा गीतकथा-नाटक-प्रहेलिकाऽन्तापिकादिष्वतीवनिपुणः, नवीनकथाश्रवणरसिक: ५°प्रत्यहं नवीनां नवीनां वार्ता जनमुखात् शृणोति । एकदा तेन राज्ञा नगरे पटहो वादितो यत्सर्वैरपि लोकैरिकेण५१ राज्ञोऽग्रे नवीना कथा कथनीया । एतद्राज्ञो वाक्यं श्रुत्वा यस्य वारकः समायाति स राज्ञोऽग्रे गत्वा कथां कथयति । एकदावसरे एकस्य ब्राह्मणस्य वारकः समायातः, स ब्राह्मणोऽतीवमूर्खराट् कथां वक्तुं न जानाति । तद्गृहे एका पुत्री वर्तते, साऽतीवचतुरा, तया पितुरुक्तम्, त्वं निश्चिन्तो भव, अहं राज्ञोऽग्रे गत्वा नवीनां कथां कथयिष्यामीति राज्ञोऽग्रे गता, राज्ञा पृष्टम् भो पुत्रि ! कथां कथय, यथा मन्मनोरञ्जनं जायते । ब्राह्मणपुत्र्या कथितम्, हे राजन् ! स्वानुभूतामेव वार्ता कथयामि, सावधनतया श्रृणु हे स्वामिन्नहं पितृगृहे ५२नवयौवनवती जाता, तदा पित्रा सदृशकुलोत्पन्नेन ब्राह्मणपुत्रेण सार्द्ध मदीयो विवाहो मेलितः, स नवीनमेलितविवाहो मदीयो भर्ता मदीयरूपविलोकनार्थ मद्गृहे समायातः, तस्मिन्नवसरे मे मातापितरौ क्षेत्रं गतौ, अहमेकाकिनी५३ गृहे स्थिता । मया सम्यक्स्नानभोजनादिना स भर्ताऽतीव सन्तोषितः, सोऽपि भर्ता मदीयमद्भुतं रूपं दृष्ट्वाऽतीवकामज्वरपीडितो जातः, पल्यकोपरि स्थितोऽङ्गमोटनं करोति, सरागवचनं वदति, पुन:पुनर्मामवलोकयति । मया तदीयोऽभिप्रायो ज्ञातः, तदा मया कथितम्, भो कांत ! त्वरा५४ न विधेया, पाणिग्रहणं विना ५५विषयादिकृत्यं न भवति । अतिबुभुक्षितोऽपि पुमान् किं करद्वयेन भुङ्क्ते ? ततोऽधुना विषयसेवनं न युक्तमेवेति मदीयवाक्यं श्रुत्वाऽतीवकामातुरस्य तस्य कुक्षौ शूलं समुत्पन्नम्, तेन व्याधिना च स मदीयो भर्ता मृतः, तदा मया स गृहमध्ये भूमौ निक्षिप्तः, केनापि न ज्ञातम्, मात्रा पित्रापि न ज्ञातम् । हे स्वामिन्नियं मदीयाऽनुभूता वार्ता कथिता । तां श्रुत्वा राजातीवसन्तुष्टो जातः, सा कन्या गृहे समायाता । जयन्तश्रीः कथयति यथा तया कल्पितवार्त्या राज्ञो मनो राञ्जितम्, तद्वत्त्वमप्यस्माकं मनो रञ्जयसि, परन्तु मिथ्यैवेयं प्रवृत्तिः, अतो यः स्वकीयं चरणं विचार्य धरिष्यति तस्य लज्जा स्थास्यति, अतो हे स्वामिन् ! ५६भुक्तभोगी भूत्वा पश्चाच्चारित्रं गृहीत्वाऽऽत्मार्थः साधनीयः।